________________
१३८
तर्कतरङ्गिणी 'न च तीरत्वेन समं संयुक्तसमवायलक्षणा तिष्ठत्येवेति वाच्यम् । संयुक्तसमवायस्य तीरेण सममसम्भवात् । न च तीरेण समं संयोगरूपा लक्षणा, तीरत्वेन समं संयुक्तसमवायलक्षणेति वाच्यम् । शब्देनैकदैव वृत्तिद्वयेन शाब्दबोधाजननात् । अन्यथा प्रवाहस्य पर्वतादिनाऽपि समं सम्बन्धस्य विद्यमानत्वात्तेनापि सम्बन्धेन गङ्गापदेन पर्वतादीनांपि ज्ञानं जन्येत् । तस्मात्तीरत्वबोधार्थं 'काचनान्या लक्षणा कल्पनीया, न संयोगादिरूपा । तीरत्वसंयोगाभावात् ।
ततः तीरत्वसाधारणा लक्षणाऽतीवनवीनमते । यथा गङ्गापदस्य तीरे तीरत्वे च लक्षणाप्रवाहतीरे इति समूहालम्बनात्मकज्ञानविषयत्वरूपा । अयं सम्बन्धस्तीरे तीरत्वे च समान इत्युभयत्र लक्षणा । सा च मणिकारमते "द्विविधैव । एका सामान्यरूपा, एका निरुढिलक्षणा ।
आद्या यथा-स्वशक्यबाधप्रतिसन्धानोत्तरभावशाब्दबाधविषयिता निरूपितविषयताशालिज्ञानजनकत्वरूपा । -यथा गङ्गायां घोषः, मञ्चाः क्रोशन्ति-इत्यादिका । अयमर्थः-स्वशक्ये यो बाधस्तस्य यत्प्रतिसन्धानं तदुत्तरं यः भावीयः शाब्दबोधः 'तीरे घोषः' इत्येवंरूपः, तनिरुपिता या विषयता तीरेऽस्ति, तन्निरूपिता या विषयता ज्ञाननिष्ठा, तच्छालि यज्ज्ञानं तज्जनकत्वरूपः सम्बन्धविशेषः शक्येन समं संयोगरूप इति ।
द्वितीया यथा-शक्तितुल्यक्षणा । यथा स्वशक्यबाधप्रतिसन्धानोत्तरभाविशाब्दबोधविषयताऽतिरिक्तवृत्तिस्वशक्यसम्बन्धो निरुढिलक्षणेति प्राञ्चः । यथा 'धूमाद्' इत्यत्राहत्य प्रतिज्ञार्थे वह्नौ “धूमज्ञानजन्यं ज्ञानविषयत्वम् । वह्निज्ञाने वा धूमज्ञानजन्यत्वं बुध्यते ।
ननु स्वशक्यबाधोऽपि तत्र सहकारी, अतो निरूढिलक्षणा शक्तितुल्यैवेति गीयते, । तथा च धूमादिति पञ्चम्यर्थो(थ) हेतुत्वं धूमे न सम्भवति । कुत इति चेत्, वह्निमानित्यत्र प्रतिज्ञार्थो भवति वह्निः । तत्र धूमादित्यं हेतुः वह्नि समं नान्वेति । धूमहेतुको वह्निरिति शाब्दबोधानुदयात् । तस्मादत्र पञ्चम्या ज्ञाने लक्षणा । तथा च धूमज्ञानजन्यज्ञानविषयो वह्निः । अथवा धूमज्ञानजन्यं वह्निज्ञानमिति शाब्दबोधः । अत्र तु पञ्चम्याऽऽहत्यैव धूमज्ञानं जन्यते । यद्यप्यत्रोक्तरीत्या बाधो वर्तते तथापि तस्य ज्ञानं नापेक्ष्यते । आहत्यैव तज्ज्ञानजननात् सामान्यायां चेतरबाधोऽपि सहकारीति विवेकः । यथा गङ्गायां घोषः इत्यत्र प्रथमत: प्रवाहबोध तदनन्तरं तत्र बाधज्ञानं तदनन्तरं तीराधारताबोधः, ततः शाब्दबोधः इति बाधसहकारितेति रीति निरुढायां नास्ति । अत्र बाधज्ञान सहकारिता नास्ति । परं मुख्यार्थबाध एव लक्षणा भवति । जहत् स्वार्थाजहत्स्वार्थयोरन्तर्भाव: सामान्यायामेवेति "ज्ञेयम् ।
१. A Please see note no. 6 on page 137. २. B काचन लक्षणा. ३. B omits तीरे. ४. B द्विविधा। ५. B तीरघोषः. ६. B यथा लक्षणं यथा स्व.. ७. B प्रतिज्ञातेऽर्थे. ८. B -ज्ञानजन्यज्ञानविषयत्वम् । ९. B यथा. १०. B सहकारता. ११. B omits ज्ञेयम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org