________________
तर्कतरङ्गिणी
१३७
शक्तिरेव सन्निकर्ष: । तेन सम्बन्धेन वाच्यतासम्बन्धेन शब्दो घटे तिष्ठति, वाचकतासम्बन्धेन घटो घटपदे तिष्ठति ।
(X) शब्दप्रमाणे लक्षणाविचारः ।
एवं लक्षणाऽपि वृत्तिर्बोध्या । यदा गङ्गापदेनाहत्य साक्षादेव तीरस्य बोधो न जन्यते । तत्र तीरेण समं शक्तिरूपसम्बन्धासम्भवात् स्वशक्यसंयोगित्वरूपसम्बन्धो वाच्यः । सैव लक्षणा । यथा गङ्गापदं स्वशक्यसंयोगित्वसम्बन्धेन तीरे तिष्ठति, गङ्गापदवत्तीरमिति प्रतीतेः तथा च गङ्गायां घोष इति वाक्यश्रवणानन्तरं गङ्गापदेन स्वशक्य संयोगित्वसम्बन्धेनाहत्य तीरस्योपस्थितिः कृता । घोषपदेन घोषस्य वाच्यतासम्बन्धेनोपस्थितिः कृता । सप्तम्या चाधिकरणस्योपस्थितिः कृता । तदनन्तरं तीराधिकरणको घोष इति लक्षणया बोधो भवतीति नवीनाः ।
नवीनमते लक्षणासम्बन्धेनाहत्य पदार्थस्मृतिर्जन्यते । न च तत्र स्वशक्यबाधप्रतिसन्धानमपि सहकारीति वाच्यम् । प्रमाणाभावात् । प्राचीनास्तु वाक्यश्रवणानन्तरं स्वशक्यबाधप्रतिसन्धानं भवति । तदनन्तरं लक्षणया पदार्थान्तरस्य स्मरणं भवति । तदनन्तरं वाक्यार्थबोध: । यथा गङ्गायां घोष इत्यत्र गङ्गापदेन शक्तिसम्बन्धेन प्रवाहस्य प्रथमत उपस्थितिर्जन्यते । ततो घोषस्य प्रवाहेन सममन्वयबाधकज्ञाने जातिलक्षणया तीरस्योपस्थितिर्गङ्गापदेन जाता तदनन्तरं तीरेण समं घोषान्वयबोधो भवतीति ।
ननु गङ्गापदस्य तीरे स्वशक्यसंयोगरूपा लक्षणा । सा तु तीरे सम्भवति तथापि तीरत्वेन नास्ति । तीरत्वेन समं संयोगाभावात् । तथा च तीरत्वबोधकपदाभावात् तीरत्वप्रकारकः तीरबोध एव न सम्भवति । न च येन रूपेण पदार्थे यस्य पदस्य लक्षणा गृहीता तेनैव रूपेण तस्य पदार्थस्य तेन पदेन तस्य च रूपेण बोधो जन्यते, यथा गङ्गापदस्य तीरत्वेन रूपेण तीरे प्रवाहसंयोगरूपा लक्षणा गृहीता पुनः कालान्तरे गङ्गापदेन संयोगसम्बन्धेन' तीरत्वेन रूपेण तीरस्योपस्थितिः क्रियते, तथा च तीरत्वेन समं लक्षणा किमर्थमपेक्ष्यते इति वाच्यम् । एवं सति घटादिपदादीनां घटत्वाद्यंशे शक्तिर्न ६ स्यात् । तथा च घटपदस्य घटत्वेन रूपेण घटे शक्तिर्गृहीता । पुनः कालान्तरे संस्कारद्वारा घटपदेन घटत्वेन रूपेण घटस्य स्मरणं जन्यते । ततो घटत्वाद्यंशे शक्ति' नपेक्ष्यते । यदुच्यते घटपदस्य घटत्वेन रूपेण ́ घटत्वांशे शक्तिर्नास्ति तदा घटत्वस्य बोध एव न स्यात् । तदा प्रकृतेऽपि समानम् । यदि गङ्गापदस्य तीरत्वांशे लक्षणा नास्ति तदा तीरत्व बोध एव न स्यात् ।
१. B घटेति वाचकता. २. B omits न. ३. B पदार्थस्य ४ A सम्बन्धे तीर. ५. A एवं च सति. ६. B reads after स्यात्-न च तीरत्वेन समं संयुक्तसमवायलक्षणा तिष्ठत्वेवेति - It is an unwanted repetition. Pl. see note 1 of page 138. ७ B शक्ति र्न स्यात्. ८. B रूपेण घटे श. ९. Bomits तदा. तर्क. - १८
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org