________________
१३६
तर्कतरङ्गिणी भविष्यति ? [अत:]सामान्यलक्षणैव प्रत्यासत्तिर्वाच्या ।
तथा च धूमवत्त्वेन रूपेण महानसस्थले धूमाधिकरणे वह्निर्गृहीतः । तथा च वह्निना समं चक्षुरिन्द्रियस्य सन्निकर्षः । चक्षुरिन्द्रियसन्निकृष्टधूमाधिकरणवृत्तित्वमेव सन्निकर्षः । ततोऽनेन सन्निकर्षेण पर्वतीयवह्नविषयकं प्रत्यक्षमेव सम्भवति, किमर्थमनुमानम् । एवमतीन्द्रियस्थलेऽपि भवन्मतेऽपि सामान्यलक्षणारूपसन्निकर्षसत्त्वात् प्रत्यक्षमेव सम्भवति । मन्मते तु अतीन्द्रियपदार्थस्याभावादेव नानुमानम् । एवं शब्दस्थलेऽपि श्रोत्रेण शब्दविषयकप्रत्यक्षद्वारा पदविषयकप्रत्यक्षद्वारा वाक्यार्थसंसर्गरूपं प्रत्यक्षज्ञानमेव सम्भवति । न्यायमते तु गौरवम् । यथा प्रथमतो वर्णोत्पत्तिः, तदनन्तरं श्रोत्रेन्द्रियस्य वणे : समं 'समवायरूपः सन्निकर्षः । तदनन्तरं श्रोत्रेण तावत् वर्णविषयकाराणि प्रत्यक्षाणि । तैः प्रत्यक्षैस्तावत् वर्णविषयकसंस्कारो जन्यते । तदनन्तरं संस्कारैः कालान्तरैः पदस्मरणं कर्तव्यम् । तेन स्मरणेन पदार्थस्मृतिः कर्तव्या । तदनन्तरं पदार्थस्मृत्या पदार्थानां परस्परं संसर्गबोधो जन्यते । अ(इ)यमेव शाब्दीप्रमा फलम्, पदज्ञानं करणम्, पदार्थस्मृतिस्तु अवान्तरव्यापारेति । अत्र दूषणम्-ज्ञानलक्षणप्रत्यासत्त्यैव वाक्यार्थबोधसम्भवात् । तथाहि यथा पूर्वघटदिपदशक्तिग्रहार्थं घटदिज्ञानं यत्ख्यातं चक्षुरादिना, तदनन्तरं तेन ज्ञानेन संस्कारो जनितः । पुनः कालान्तरे तेनैव संस्कारेण वाक्यरूपमुद्बोधकं प्राप्य घटादि पदार्थस्मरणं क्रियते । तथा घटकर्मकानयनक्रियादिरूपैः पदार्थैः सह श्रवणेन्द्रियस्य मनसो वा स्मरणरूपज्ञानलक्षणा प्रत्यासत्तिः। तया सन्निकृष्टानां घटादीनां परस्परमन्वयबोधो जायते । एतच्चक्षुरिन्द्रियमनसोः फलम्, पदार्थस्मरणमवान्तरव्यापारेति प्रत्यक्षमेव प्रमाणम् ।
__ तदपि मन्दम् । वह्निमनुमिनोमीति प्रत्ययेनानुमितित्वजातिः सिध्यति । सा तु "साक्षात्काररूपज्ञानव्यावृत्त्या तत्र साक्षात्करोमीति प्रत्ययो न भवत्येव । वर्तते च वह्निमनुमिनोमि, न साक्षात्करोमीति प्रत्ययात् । शाब्दस्थलेऽपि घयदीनां संसर्गः, शाब्दयामीति प्रत्ययात् न प्रत्यक्षत्वम्। प्रतीतिबलाद्भेदः। (IX) शक्तिः ।
शक्तिया॑यमते विशिष्टेश्वरेच्छैव । यथाऽस्माच्छब्दादयमर्थो बोधव्य इतिरूपा । तद्ग्रहोऽपि शाब्दबोधं प्रति कारणं भवति । वाच्यवाचकसम्बन्धग्रहव्यतिरेकेण शाब्दबोधानुदयात् । लक्षणा तु "स्वशक्यसम्बन्ध एव संयोगादिः । यथा चक्षुरिन्द्रियेण घटादिविषयं ज्ञानं जन्यते तदा घटचक्षुसंयोगमपेक्ष्यैव जन्यते तथा शब्देन घटदिविषयकं ज्ञानं जन्यते । तदा घटेन समं शब्दस्य १. B समवायसनि. २. B तच्चक्षु.. ३. B फले. ४. B रूपज्ञानवृत्तिः । तत्र. ५. Pl. add शाब्दस्थलेऽपि घटदीनां संसर्गः, शाब्दयामीति प्रत्ययात्- ६. B omits भवति. ७. B स्वरूपसम्बन्धशक्य एव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org