________________
तर्कतरङ्गिणी
१३५ रूपेण यदि ज्ञानस्य कारणत्वं तदा संस्काररूपद्वारं प्रत्यपि ज्ञानत्वेन रूपेण कारणत्वमिति वाच्यम् । तथा नियमे प्रमाणाभावात् । यथा घटत्वावच्छिन्नं प्रति दण्डस्य दण्डत्वेन रूपेण कारणत्वं, भ्रमिरूपद्वारं प्रति तु कोमलदण्डव्यावृत्तर पदृढदण्डत्वेन रूपेण कारणताङ्गीकारात्, कोमलदण्डेन भ्रम्यजननात् । यथा तदजनने कोमलदण्डस्य प्रत्यक्षं प्रमाणं तथा स्मरणं प्रति यज्ज्ञानत्वेन रूपेण ज्ञानं कारणम्, तत्संस्काररूपद्वारं प्रति सन्देहरूपज्ञानव्यावृत्ति निश्चयत्वेन रूपेण कारणम् । तथा च सन्देहात्मकज्ञानेन संस्कारो न जन्यते संस्काररूपसामग्र्यभावात् सन्देहरूपा स्मृति न जन्यते ।
यद्यपि सुन्दलोपाध्यायमते सन्देहरूपाऽपि स्मृतिः सम्भवत्येव, तथापि तद्दूषणं हेत्वाभासग्रन्थे सत्प्रतिपक्षावसरे बोध्यमिति दिक् ।
अपि च यदि ज्ञानत्वेन स्मृतित्वेन कार्यकारणभावस्तदा निर्विकल्पकेनापि स्मरणं जन्येत । समानप्रकारत्वेनैव कार्यकारणभावः । निर्विकल्पकस्य च निष्प्रकारकत्वात् । तथा च स्मृति प्रति ज्ञानस्य ज्ञानत्वेन रूपेणापि कारणत्वविरहात् । तावत्वर्णविषयकं स्मरणं कथं सिध्येत्, कारणाभावेन स्मरणासम्भवात् ।
न च निश्चयत्वेन स्मृतित्वेन च कार्यकारणभावः । तथा सति सन्देहानन्तरं स्मरणं कल्पयितुं न शक्यते । तत्र निश्चयत्वाभावात् । निर्विकल्पकस्थलेऽपि स्मरणं न जायते । निर्विकल्पके निश्चयत्वाभावात् । निश्चयत्वं घटकत्वादिप्रकारकत्वे सति घटाभावाप्रकारकत्वं निर्विकल्पकस्य निष्प्रकारत्वादिति वाच्यम् । निश्चयत्वस्याप्येकस्याभावात् । निश्चयत्वेन स्मृतित्वेन य कार्यकारणभावो वक्तुमशक्यः।
अत्र नवीनाः समादधुः । ज्ञानत्वेन स्मृतित्वेन कार्यकारणभावः । न च पूर्वोक्तदोषः । एकत्र सन्देहस्थले संस्काराभावादेव स्मृति न जायते । अन्यत्र निर्विकल्पकस्थलेऽपि संस्काराभावादेव । संस्कारस्तु निश्चयात्मकज्ञानेनैव जन्यते इति सक्षेपः । विस्तरस्तु शिरोमणिप्रकाशे बोध्यः । (VIII) चार्वाकमतनिरासः ।
अत्र चार्वाकः शङ्कति (ते)। - प्रत्यक्षातिरिक्तं प्रमाणं नास्त्येव । सर्वत्र प्रत्यक्षेणैवन्द्रियेण विषयस्य बोधसम्भवात् । तथा हि यत्र हि पर्वतादिस्थले वढेरनुमिति र्जायते तत्रापि चक्षुरादिना वह्वेर्ज्ञानं सम्भवत्येव । न च वह्निना समं सन्निकर्षाभावेन कथं वह्निविषयकं प्रत्यक्षमिति वाच्यम् । "तत्रालौकिकसन्निकर्षस्य सामान्यलक्षणसन्निकर्षस्य विद्यमानत्वात् । तथाहि पर्वतीयवह्नानं विशेषणज्ञानार्थं भवताऽपि स्वीकार्यमेव । तत्र भवन्मतेऽनुमानात्पूर्वसन्निकर्षाभावेन वर्ज्ञानं कथं
१. B omits अपि. २. B -मशक्य इति । ३. B -कारणभावेन च पूर्वो. ४. B अत्रा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org