________________
१३४
तर्कतरङ्गिणी
पुनस्तेन संस्कारद्वारा समूहालम्बनात्मकं स्मरणं कथं न जन्यते इति चेत्, न । प्रत्येकवर्णानुभव संस्कारेणापि यत्र सर्वेषां वर्णानामेकदैव स्मरणसामग्री मिलिता, तन्महिम्ना एकदैव तावद्वर्णविषयकं समूहालम्बनात्मकं स्मरणं जायते एव । तेन वाक्यार्थज्ञानमिति ।
ननु स्मृतिं प्रत्यनुभवस्य कारणत्वे किं प्रमाणम्, लाघवादनुभवध्वंस एव कारणम्, भवता मध्ये संस्कारः कल्पनीयः, इदमेव भवन्मते एव गौरवम् । भावककल्पनापेक्षयाऽभावस्य गुरुत्वान्मतेऽनुभवत्वेन कारणता, संस्कारद्वारा स्मृतित्वेन कार्यता । तदपि न अनुभवत्वस्य शाब्दानुमानिकादिसाधारणस्यैकस्याभावात् । अनुभवत्वं तु न जातिः । प्रमाणाभावात् ।
न च कार्यकारणभाव एव प्रमाणं स्मृतित्वावच्छिन्नकार्यतानिरुपितकारणताववच्छेदकत्वेनानुभवत्वं जातिरूपम्, स प्रत्यक्षशाब्दादिसाधारणं सिध्यतीति वाच्यम् । साक्षात्कारज्ञानातिरिक्तानुमानादि-ज्ञानेऽनुभवत्वं नास्त्येव, प्रमाणाभावात् । यदि शब्दादिज्ञानेऽप्यनु- भवत्वं तिष्ठति 'तदा स्वर्गमिति शब्देन यज्जातं ज्ञानं तत्रापि भवन्मतेऽनुभवत्व विद्यमानत्वात् स्वर्गमनुभवामीति प्रत्ययः स्यात् । स्वर्गं शाब्दयामीत्यादिप्रतीतिः, न त्वनुभवामीति प्रतीतिः कस्यापीति । अथ च यत्र क्षणे सुखमुत्पन्नं तस्मिन्नेव क्षणे दुःख विषयकमानुमानिकं ज्ञानं 'वृत्तम् । तदनन्तरं सुखावस्थितिः । दुःखक्षणे दुःखमनुभवामीति प्रत्ययः स्यात् । न चेयं प्रतीतेर्वैपरीत्यात् । तथा सुखमनुभवामि दुःखमनुभवामीति तथा चैतद् बाधकबलादनुभवत्वमनुमानादिसाधारणं वक्तुमशक्यम् ।
पूर्वोक्त कार्यकारणभावः मिश्रोक्ते प्रमाणं नास्ति । तथा चानुभवत्वं साक्षात्त्वमेव घटत्वकलशत्वादिवदिति शिरोमणयः ।
न च साक्षात्वानुभवत्वयोः ऐक्यमपि प्रमाणाभावादिति वाच्यम् । तत्रानुव्यवसायस्य प्रमाणत्वात् । यत्र भूतलादौ घटयदिविषयकः साक्षात्कारो जायते तत्र घटं साक्षात्करोमीति प्रततिः । तथा घटमनुभवामीत्यपि प्रतीतिः । तदा साक्षात्त्वानुभवत्वयोरन्यूनातिरिक्तवृत्तित्वेनाभेद एवेति कुम्भत्वघटत्वयोरिति । तथा चानुभवत्वस्य शाब्दादिज्ञानमेव वृत्तित्वेन न्यूनवृत्तित्वेन व्यभिचारादनुभावत्वावच्छिन्नकारणतानिरुपित-कार्यताश्रयत्वं स्मृतौ नास्त्येवेति ।
अथ ज्ञानेन स्मृतित्वेन च कार्यकारणभावो वाच्यः । ज्ञानत्वस्य च शब्दादिसाधारणत्वात् । तदपि न । तथा सति सन्देहात्मकज्ञानेनापि स्मरणं जन्यते । तज्जन्यते च सामग्र्यभावात् । तथाविधे संस्कारो नास्ति । कथमिति चेत्, सन्देहात्मकज्ञानेन संस्काराजननात् । निश्चयत्वेन संस्कारवत्वेन च कार्यकारणभावात् । न च यत्फलं प्रति कारणं तदेव द्वारं प्रत्यपि, तथा च स्मरणरूपफलं प्रति ज्ञानत्वेन
१. B तथा २. B वृत्तिः ३. B omits the reading between ज्ञानत्वेन रूपेण यदि.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org