________________
तर्कतरङ्गिणी
१३३
स्मरणेन घटकर्मत्वादिरूपपदार्थस्मृतिः जन्यते । पदार्थस्मरणानन्तर पदार्थानां परस्परं योऽन्वयो घटकर्मकानयनक्रियारूपः स एव वाक्यार्थ इति 'मीयते स च वाक्यार्थः पदार्थस्मृत्या जन्यते । तथा च पदज्ञानं करणम् । पदार्थस्मरणमवान्तरव्यापारः । वाक्यार्थज्ञानं फलम् । तता च पदज्ञानस्य व्यापारखत्त्वेन का(क)रणत्वं - - शाब्दीप्रमाकरणत्वम् । तथा च शब्दप्रमाणस्येदमेव लक्षणं बोध्यम् । यथा शाब्दप्रमितिकरणं शब्दप्रमाणम् । न तु पदज्ञानमेव । न च ज्ञायमाने पदे नष्टे पदस्थले ज्ञायमानं पदं नास्ति, परं पदज्ञानमस्त्येव । ननु पदज्ञानस्य प्रमाणत्वे पदस्य शब्दरूपस्य प्रामाण्यं नागतमिति चेत्, न । पदज्ञानविषयत्वेन पदस्याप्रामाण्यं शब्दः प्रमाणमिति व्यवहारेण प्रमाणरूपं पदज्ञानविषयत्वेन शब्दस्य प्रामाण्यं कल्प्यते इति ।
एतत्सर्वं मनसिकृत्व(त्वा) टीकाकृत्क्रमेणाह नन्विति द्वयमिति । लौकिकसन्निकर्षजन्यत्वं चरमवर्णविषयकज्ञानं प्रत्यलौकिकसन्निकर्षजन्यत्वं च ध्वस्तवर्णविषयकं ज्ञानं प्रति स्मरणं सन्निकर्षः । इदं द्वयमयुक्तम् । पूर्वन्यायेनेति । तथा च यत्र बहवो वर्णास्तिष्ठन्ति तेषामनुभवरूपं . समूहालम्बनात्मकं ज्ञानं न सम्भवति । तेषां च 'घ' कारादीनां प्रत्येकं नाशात्तदनुभवासम्भव इति पूर्वन्यायः । घटमानये त्यादिस्थले यदा श्रवणेन्द्रियेण एता वर्णा गृह्यन्ते तदा तैः सार्धं श्रोत्रस्य लौकिकसन्निकर्षो नास्ति । तेषां ध्वंसत्वात् । ततो लौकिकसन्निकर्षाभावात् कथं तेषां ग्रह इत्यर्थः ।
उत्तरयति-तावदिति ‘घ’कारादीना यद्यप्येकदानुभवः समूहालम्बनात्मको न भवति तथापि तेषां प्रत्येकं योज्यतेऽनुभवः । तैः प्रत्येकं जन्याः ये संस्काराः तैः कालान्तरे उद्बोधकवशात् समूहालम्बनात्मकं स्मरणं जन्यते । ततो वर्णस्मरणानन्तरं पदार्थज्ञानं, तदनन्तरं वाक्यार्थज्ञानं जायते, 'इयमेव च शाब्दी प्रमा
'उपनयेति तथा च सर्ववर्णविषयक ज्ञाने उपनीताः वर्णा विशेषणत्वेन भासन्ते । तच्च मानसज्ञानमनुव्यवसायात्मकं तदनन्तरं पदार्थज्ञानं ततो वाक्यार्थज्ञानमिति वा ।
ननु ध्वस्तवर्णानां सर्वेषामेकदा समूहालम्बनात्मकं स्मरणमपि न सम्भवति, एकदैव सर्ववर्णानां समूहालम्बनात्मकानुभवाभावात्, अनुभवस्मरणयोः कार्यकारणभावस्तु समानप्रकारकत्वे समानविषयत्वेन रूपेण । तथा च यत्र घटमात्रविषयकानुभवेन घटविषयकः संस्कारो जनितस्तत्र कालान्तरेणैव संस्कारेण घटमात्रविषयं स्मरणं जन्यते । यत्र तु घटपटादिविषयकः समूहालम्बनात्मकानुभवेन संस्कारो जनितस्तत्र तेन संस्कारेण कालान्तरे उद्बोधविशेषं प्राप्य समूहालम्बनात्मकमेव ‘स्मरणं जन्यते । प्रकृते तु समूहालम्बनात्मकोऽनुभव एकदा जात एव न
१. B omits मीयते. २. B ज्ञायमानं पदं. ३. B प्रमाणरूपपद. ४. B विषयकज्ञानं. ५ B एवं च. ६. It is उपनयेनेति in त. भा. प्र. ७. Bomits तेन. ८. B स्मरणमेव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org