________________
१३२
तर्कतरङ्गिणी निःस्पर्शसमवेतत्वात्तस्य । तस्मात् शब्दोऽनित्य एव । (VII) प्रत्यभिज्ञया शब्दग्रहणम् ।
अनुकूलतर्कोऽप्यस्ति । कोलाहलो न [श]ब्द इति प्रतीतिः । न च नित्यत्वसाधनेऽपि प्रत्यभिज्ञारूपोऽनुकूलतर्कोऽस्ति 'यथा सोऽयं 'ग' कार इति वाच्यम् । सोऽयं 'ग' कार इति प्रतीतिस्तु तज्जातीयो 'ग' कार इत्यालम्बते । यथा सेयं दीपकलिकेत्यत्र तज्जातीयदीपकलिकेति कल्प्यते तथा प्रकृतेऽपि।
पूर्वपूर्वेति । यत्र पूर्वपूर्ववर्णानां नाशो जातस्तत्र तद्विषयकः संस्कारः स्मरणं, वर्णानां प्रत्यासत्तिः । चरमेति श्रवणेन्द्रियेण यदा चरमवर्णविषयकं प्रत्यक्षं जन्यते तदा श्रवणेन्द्रियं समवायः वर्णानां यत्प्रत्यक्षं सन्निकर्षः चरमविषयकं प्रत्यक्षं फलम् । ध्वस्त जायते तत्र स्मरणं वा संस्कारः (वा) प्रत्यासत्तिरित्यर्थः । एवं चेति तथा च वाक्यविषयकं यज्ज्ञानं तल्लौकिकमलौकिकं च भवति । 'यदंशे स्मरणं सन्निकर्षः तदंशे लौकिकप्रत्यासत्त्यजन्यत्वे सत्यलौकिकप्रत्यासत्तिजन्यत्वम् । चरमवर्ण ज्ञानांशे तु लौकिकप्रत्यासत्तिविद्यमानत्वेन लौकिकमेव ज्ञेयम् । तथा चेदमनेकवर्णविषयकं समूहालम्बनात्मकं ज्ञानं 'लौकिकालौकिकप्रत्यासत्तिजन्यं भवतीति सिद्धम् ।
- इदमिति यदुपनीतं, ज्ञानविशेषणत्वेन ये जाताः । कोऽर्थः ? येषां स्मरण जातं तत्र तु स्मरणमेव प्रत्यासत्तिः । यत्र च चरमवर्णानुभवे चरमवर्णो विशेषत्वेन जातस्तत्र समवाय एव प्रत्यासत्तिरित्ययं पूर्वोक्तपन्थानः समीचीनः । कथं चरमवर्णानुभवानन्तरं सर्वेषां वर्णानां स्मरणमेव बोध्यम् । सर्वैः वर्णैः समं संस्कारः स्मरणं वा प्रत्यासत्तिः । चरमवर्णस्यानुभवानन्तरं नष्टत्वात् । तथा चानेकवर्णविषयकमलौकिकमेव समूहालम्बनात्मकं ज्ञानमुत्पद्यते ।
अथानया परिपाट्या यावत्पदप्रत्यक्षं जायते तस्य च किं प्रयोजनमिति चेत्, इदमेव-येन पुरुषेण शक्तिरर्थपदयोर्वाच्यवाचकभावरूपा-अस्माच्छब्दादयमर्थ बोधव्यो इतीश्वरेच्छारूपा येन गृहीता तस्य पुरुषस्य कालान्तरे पदोच्चारानन्तरं श्रोतुः पदप्रत्यक्षं जायते । पदस्मरणेन पदार्थस्मृतिर्जन्यते । पदार्थस्मृत्या पदार्थानां परस्परमन्वयो वाक्यार्थरूपः तद्बोधो जन्यते, इदमेव पदज्ञानस्य प्रयोजनम् । पदज्ञानव्यतिरेकेण वाक्यार्थज्ञानानुदयात् । यथा चैत्रेण मैत्रं प्रत्युक्तं घटमानयेतिवाक्यं मैत्रस्य 'घ' कारादीनां वर्णानामेकदा सर्वेषामनुभवासम्भवात् । प्रथमतः प्रत्येकं घकारादि विषयकानुभवावृत्तास्तैरनुभवैः प्रत्येकं “स्व विषयकाः संस्कारा उत्पादिताः । तैः संस्कारैः कालान्तरे उद्बोधकविशेषं तत्पदव्यक्त्यादिकं प्राप्यतावतां 'घ' कारादिवर्णानां स्मरणं जन्यते। तेन
१. B omits यथा, २. B यद्देशे. ३. B -प्रत्यासत्त्या ज.. ४. B वर्णांशे. ५. B लौकिकप्रत्या.. ६. B समवायि. ७. B omits येन. ८. B स्वविषयाः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org