________________
तर्कतरङ्गिणी
१३१ ज्ञानत्वाद्, अस्मदादिज्ञानवदिति वाच्यम् । ईश्वरज्ञानस्य नित्यत्वेनाव्याप्यवृत्तिप्रयोजककारणाभावात् । अस्मदादिज्ञानमव्याप्यवृत्ति भवति, 'तत्प्रयोजकशरीररूपकारण सत्त्वात् । शरीरावच्छेदेनैव ज्ञानोत्पत्तिः। ईश्वरज्ञानं च न तथा । तस्य शरीराभावात् । तथा च तत्रापि हेतोरप्यसत्त्वेन न व्यभिचारः । प्रथमानुमाने सत्यन्तं ध्वंसे व्यभिचारवारणाय । (१) सत्यन्तं द्वितीयानुमाने परि(र)माणौ व्यभिचारवारणार्थम्, बहिरिन्द्रियग्राह्यय इति । तथापि योगिबहिरिन्द्रियग्राह्यत्वे सति तत्रैव जातिमत्त्वमस्तीति व्यभिचारवारणार्थमस्मदादिपदम् । (२) । तृतीयनुमानेऽस्मदादिपदं योगिप्रत्यक्षगुणत्वं जलादिपरमाणुरूपेऽस्ति । तत्र साध्यसत्त्वेन व्यभिचारवारणार्थम् । [(३)]। यस्य मतेऽऽत्मन एकत्वमपि प्रत्यक्षं, तन्मते विशेषगुणत्वादित्यपि हेतुः व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात् (१), अनात्मप्रत्यक्षगुणत्वाद्वा (२), बहिरिन्द्रियव्यवस्थाहेतु-गुणत्वाद्वा (३) भूतप्रत्यक्षगुणत्वाद्वा (४), उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्तजातिमत्वाद्वा (५)-इत्यादि हेतवः।
न च सर्वेष्वनुमानेषु साधनावच्छिन्नस्य पक्षधर्मावच्छिन्नस्य वा साध्यव्यापकः स्पर्शवत्समवेत्त्वमुपाधिः । तथाहि उपाधियोजनं यत्र यत्र सत्त्वे सति उत्पत्तिमत्त्वावच्छिन्नमनित्यत्वं तत्र [तत्र] स्पर्शवत्समवेतत्वमस्ति । यथा घटः । घटे सत्त्वे सत्युत्पत्तिमत्त्वावच्छिन्नमनित्यत्वं वर्तते । तत्र च स्पर्शवत् भवति कपालम् । 'तत्र समवेतत्वं वर्तते । ६+सर्वत्र वर्णात्मकशब्दपक्षीकरणे व्योमगुणेष्वनित्येषु ध्वनिषु साध्याव्यापकत्वात् । -इति साधनावच्छिन्नसाध्यव्यापकत्वम्+ (१) पक्षधर्मो भवति जन्यत्वम् । तथा च "जन्यत्वावच्छिन्नमनित्यत्वम्, तत्र (२) स्पर्शवत्समवेतत्वम्, यथा घटः ।
प्रथमहेतौ 'व्यापकसमवेत' इति पदं जलपरमाणुरूपे व्यभिचारवारणार्थम् (१) । द्वितीयेऽनात्मेति पदं आत्मैकत्वे व्यभिचारवारणार्थम् (२) । यदुच्यतेऽऽत्मैकत्वं विशेषगुणपदेनैव वारितं तदेश्वरज्ञाने व्यभिचारवारणार्थमनात्मेति पदम् । बहिरिन्द्रियेति पदं हेतुत्वे सति गुणत्वमीश्वरज्ञाने नास्ति, तत्र व्यभिचारवारणार्थम् । (३) उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्त पदं जलपरमाणुरूपादौ व्यभिचारवारणार्थम् । शब्दे च प्रवृत्तिनिमित्तमुत्कर्षापकर्षरूपा जातिस्तिष्ठति शब्दत्वव्याप्या । यद्वशात् तारत्वमन्दत्वादिप्रतीतिरिति, सा जातिर्जलपरमाणुरूपादौ नास्ति ।
उपाधिनिरासः-यथा सर्वत्रेति-सर्वेषु हेतुषु यः दत्ता (त्तः) उपाधिः स्पर्शवत्समेवतत्वरूपः तस्योपाधित्वं न सम्भवति । तस्य साध्याव्यापकत्वात् । तथाहि सर्वत्र वर्णात्मकः शब्दः पक्षीकृतः, व्योमगुणेष्वनित्येषु नित्येषु [च] ध्वनिषु साध्यमनित्यत्वं वर्तते । तत्र स्पर्शवत्समवेतत्वं नास्ति, १. B तत्प्रयोजकं. २. B -कारणत्वात्. ३. Though found in both A and B सत्यन्तं seems to be redundant here. ४. A + ६ B reads the sentence between + -+before तथाहि. ५. B तत्स. ७. B जन्यतात्वाव. ८. B निमित्त एव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org