Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 143
________________ १०२ तर्कतरङ्गिणी व्याप्तिप्रकारकमिति । व्याप्तिज्ञानं कारणमिति-उक्तरूपं व्याप्तिज्ञानं कारणम्, परामर्शो व्यापारः, अनुमितिः फलम् । ततोऽनुमितिकरणत्वात् व्याप्तिज्ञानमेवानुमानम् । येषां मते फलायोगव्यवच्छिन्नं कारणं करणं तेषां मते परामर्श एवानुमानम् । तस्य व्यापाराभावात् करणत्वमित्यर्थः । अथेतीति ननु प्रथमत एव पर्वतवृत्तिधूमज्ञानन्तरं वक़्यनुमितिः कुतो न जायते-इति चेत्, न । तत्र व्यासिज्ञानाभावात् । तथा च न्यायप्रक्रियेयं-पर्वतवृत्तिधूमज्ञानान्तरं व्याप्तिस्मरणं जायते । यथा धूमो वह्निव्याप्य इति धूमज्ञानस्य व्याप्तिविषयकसंस्कारोद्बोधकस्य सत्त्वात् तदनन्तरं व्याप्तिस्मरणानन्तरं वह्निव्याप्यधूमवानयमिति परामर्शो जायते । व्याप्तिस्मरणरूपविशेषणज्ञानस्य सत्त्वात् । तेन व्याप्तिस्मरणादिरूपकारणाभावात् पर्वतगतमात्रस्य प्रथमधूमज्ञानमनुमितिजनकं न भवतीति प्रथमधूमज्ञानं तद्व्यप्तिविषयकसंस्कारोद्बोधकम्, तद्व्यतिरेकेण व्याप्तिस्मरणाभावात् । एतदेवाह-एकसम्बन्धीति एकसम्बन्धिज्ञानं धूमरूपसम्बन्धिज्ञानं, अपरसम्बन्धिज्ञानं व्याप्तिरूपसम्बन्धिज्ञानं प्रति कारणम् । यथा हस्तिपकदर्शनानन्तरं हस्तिज्ञानमिति । अत्रायं प्रघट्टार्थः-अनुमितिपरामर्शयोः कार्यकारणभावयोः केन रूपेण परामर्शत्वेन कारणत्वम् ? अनुमितित्वेन च कार्यत्वम् यदि, तदा परामर्शत्वं किं जातिर्वा उपाधिर्वा ? नाद्यः, चाक्षुषत्वादिना जातिसङ्करात् । यत्र चाक्षुषत्वं तत्र तत्र परामर्शत्वं नास्ति । घटोऽयमिति ज्ञाने 'वा चाक्षुषत्वे परामर्शत्वाभावात् । परामर्शत्वं च परामर्शे । तत्र चाक्षुषत्वाभावात् । उभयं चाक्षुषपरामर्शेऽस्ति । यथा वह्निव्याप्यधूमवानयमिति चाक्षुषपरामर्छ । ननु चाक्षुषत्वव्याप्यैव सा जातिः स्यादिति चेत्, न । त्वाचपरामर्शादिनाऽनुमिति न स्यात् । त्वाच परामर्शे चाक्षुषत्वव्याप्यजात्यभावात् । न च मानसत्वव्याप्यैव सा जातिरस्तु, इति मैथिलाः मानसज्ञाननिष्ठा जातिरित्यर्थः इति वाच्यम् । त्वाचत्वव्याप्यैव सा जाति[र]स्तु । तया सह विनिगमनाविरहात् । न चोभयत्वं त्वाचत्वव्याप्या मानसत्वव्याप्या चेति वाच्यम् । तथा चोभयोर्मध्येऽन्यतरपरामर्शनानुमिति न स्यात् । विनिगमनाविरहेनोभयोरपि कारणत्वं वाच्यम् । तथा सति यत्र त्वाचपरामर्शो विद्यते तत्र चैकतरमानसपरामर्शो भावानुमिति न स्यादिति भावः । तथा सति परामर्शत्व किं वाच्यम् ? न चारवण्डोपाधिरिति वाच्यम् । नैयायिकमतेऽखण्डोपाधेरनङ्गीकारात् । न च सखण्डोपाधिरेवाऽस्तु इति [वाच्यम्] यथा व्याप्तिपक्षधर्मत्वप्रकारत्वे सति व्याप्तिपक्षधर्मत्वाभावप्रकारत्वं सखण्डोपाधिः । यथा वह्निव्याप्यधूमवानयमित्यत्र व्याप्तिः पक्षधर्मता च प्रकारो भवति । भवति च व्याप्तिपक्षधर्मत्वाभावो प्रकारः । ननु व्याप्तिपक्षधर्मताभावप्रकारकत्वं किमर्थमिति चेत्, सत्यन्तमात्रग्रहणे पर्वतो १. This प्रतीक is found before the previous one in त.भा.प्र. २. B तत्प्रति. ३. B omits अत्रायं. ४ B om its वा. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306