________________
१०२
तर्कतरङ्गिणी व्याप्तिप्रकारकमिति । व्याप्तिज्ञानं कारणमिति-उक्तरूपं व्याप्तिज्ञानं कारणम्, परामर्शो व्यापारः, अनुमितिः फलम् । ततोऽनुमितिकरणत्वात् व्याप्तिज्ञानमेवानुमानम् ।
येषां मते फलायोगव्यवच्छिन्नं कारणं करणं तेषां मते परामर्श एवानुमानम् । तस्य व्यापाराभावात् करणत्वमित्यर्थः । अथेतीति ननु प्रथमत एव पर्वतवृत्तिधूमज्ञानन्तरं वक़्यनुमितिः कुतो न जायते-इति चेत्, न । तत्र व्यासिज्ञानाभावात् । तथा च न्यायप्रक्रियेयं-पर्वतवृत्तिधूमज्ञानान्तरं व्याप्तिस्मरणं जायते । यथा धूमो वह्निव्याप्य इति धूमज्ञानस्य व्याप्तिविषयकसंस्कारोद्बोधकस्य सत्त्वात् तदनन्तरं व्याप्तिस्मरणानन्तरं वह्निव्याप्यधूमवानयमिति परामर्शो जायते । व्याप्तिस्मरणरूपविशेषणज्ञानस्य सत्त्वात् । तेन व्याप्तिस्मरणादिरूपकारणाभावात् पर्वतगतमात्रस्य प्रथमधूमज्ञानमनुमितिजनकं न भवतीति प्रथमधूमज्ञानं तद्व्यप्तिविषयकसंस्कारोद्बोधकम्, तद्व्यतिरेकेण व्याप्तिस्मरणाभावात् । एतदेवाह-एकसम्बन्धीति एकसम्बन्धिज्ञानं धूमरूपसम्बन्धिज्ञानं, अपरसम्बन्धिज्ञानं व्याप्तिरूपसम्बन्धिज्ञानं प्रति कारणम् । यथा हस्तिपकदर्शनानन्तरं हस्तिज्ञानमिति ।
अत्रायं प्रघट्टार्थः-अनुमितिपरामर्शयोः कार्यकारणभावयोः केन रूपेण परामर्शत्वेन कारणत्वम् ? अनुमितित्वेन च कार्यत्वम् यदि, तदा परामर्शत्वं किं जातिर्वा उपाधिर्वा ? नाद्यः, चाक्षुषत्वादिना जातिसङ्करात् । यत्र चाक्षुषत्वं तत्र तत्र परामर्शत्वं नास्ति । घटोऽयमिति ज्ञाने 'वा चाक्षुषत्वे परामर्शत्वाभावात् । परामर्शत्वं च परामर्शे । तत्र चाक्षुषत्वाभावात् । उभयं चाक्षुषपरामर्शेऽस्ति । यथा वह्निव्याप्यधूमवानयमिति चाक्षुषपरामर्छ ।
ननु चाक्षुषत्वव्याप्यैव सा जातिः स्यादिति चेत्, न । त्वाचपरामर्शादिनाऽनुमिति न स्यात् । त्वाच परामर्शे चाक्षुषत्वव्याप्यजात्यभावात् । न च मानसत्वव्याप्यैव सा जातिरस्तु, इति मैथिलाः मानसज्ञाननिष्ठा जातिरित्यर्थः इति वाच्यम् । त्वाचत्वव्याप्यैव सा जाति[र]स्तु । तया सह विनिगमनाविरहात् । न चोभयत्वं त्वाचत्वव्याप्या मानसत्वव्याप्या चेति वाच्यम् । तथा चोभयोर्मध्येऽन्यतरपरामर्शनानुमिति न स्यात् । विनिगमनाविरहेनोभयोरपि कारणत्वं वाच्यम् । तथा सति यत्र त्वाचपरामर्शो विद्यते तत्र चैकतरमानसपरामर्शो भावानुमिति न स्यादिति भावः । तथा सति परामर्शत्व किं वाच्यम् ? न चारवण्डोपाधिरिति वाच्यम् । नैयायिकमतेऽखण्डोपाधेरनङ्गीकारात् । न च सखण्डोपाधिरेवाऽस्तु इति [वाच्यम्] यथा व्याप्तिपक्षधर्मत्वप्रकारत्वे सति व्याप्तिपक्षधर्मत्वाभावप्रकारत्वं सखण्डोपाधिः । यथा वह्निव्याप्यधूमवानयमित्यत्र व्याप्तिः पक्षधर्मता च प्रकारो भवति । भवति च व्याप्तिपक्षधर्मत्वाभावो प्रकारः ।
ननु व्याप्तिपक्षधर्मताभावप्रकारकत्वं किमर्थमिति चेत्, सत्यन्तमात्रग्रहणे पर्वतो १. This प्रतीक is found before the previous one in त.भा.प्र. २. B तत्प्रति. ३. B omits अत्रायं. ४ B om its वा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org