________________
तर्कतरङ्गिणी
१०३ वह्निव्याप्यधूमवान् न वेति सन्देहानन्तरमपि वह्यनुमितिः स्यात् । अत्रापि व्याप्तिपक्षधर्मत्वप्रकारकत्वात् । तद्वारणार्थं व्यासिपक्षधर्मत्वाभावप्रकारकत्वमुक्तम् । सन्देहे च व्याप्तिपक्षधर्मताभावाप्रकारत्वाद्वानुमितिः । तत्र सन्देहे व्याप्तिपक्षधर्मत्वाभावोऽपि प्रकारोऽस्तीति । ननु सत्यन्तं विशेषणदलं किमर्थमिति चेत्, तथा च 'पर्वतो घटवान्' -इति ज्ञानान्तरं वल्य[नु]मिति: स्यात् । तत्रापि व्याप्तिपक्षधर्मत्वाभावाप्रकारकत्वं वर्तते । अत्र घटवानित्यत्र व्याप्त्यभावोऽपि प्रकारो न भवति । पक्षधर्मत्वाभावोऽपि प्रकारो नास्ति । ततः उक्तरूपो विशिष्टः सखण्डोपाधिर्वक्तव्य इति चेत्, न । व्याप्ते. पक्षधर्मतायाश्चैकस्याभावात् । धूमादिनिष्ठव्याप्तीनामेकत्वात्, निरूप्यनिरूपकनानात्वात् पक्षधर्मतायाश्चैकस्याभावात् तदघटितधर्मेण रूपेणानुमितित्वावच्छिन्नं प्रति कारणत्वकल्पनानुदयात् ।
अत्र नव्याः अतीतानागतवर्तमानपरामर्शनिष्ठ एकोऽनुगतो धर्मोऽनुमितिकारणतावच्छेदको वाच्य इति । स चायं धर्मः-यथा एतत्क्षणपूर्वकालत्वाभावविशिष्टैतत्क्षणपूर्वकालोत्तरकालवत्त्वाभावाभावत्वमेव परामर्शत्वम् । एतद्व्याख्यावर्तमानकालक्षणपूर्वकालवत्त्वं वृत्तपरामर्शऽऽधेयताविशेष सम्बन्धेन तिष्ठति । तस्य योऽभावः, तद्विशिष्टो यो वर्तमानक्षणपर्वकालोत्तरकालत्वाभावः । तदभावस्तु परामर्शमात्रे तिष्ठति
अयमत्र भाव:-यथैतद्घटत्वाभावविशिष्ट एतद्घटेतरघटत्वाभावाभावो घटमात्रे तिष्ठति तथा वर्तमानक्षणपूर्वकालवत्त्वाभावविशिष्टवर्तमानक्षणे पूर्वकालोत्तरकालवत्त्वाभावाभावः परामर्शमात्रे तिष्ठति । अयमेव परामर्शत्वधर्मोऽनुमितिकारणतावच्छेदक इत्यर्थः । (VII) स्वार्थानुमानम् ।
वाक्याप्रयुक्त इति तथा च स्वार्थानुमानं वाक्येन यदप्रयुक्तं भवति प्रत्यक्षमात्रं लिङ्गज्ञानमित्यर्थः । सहचारेति अयं भावः-महानसे वह्निसामानाधिकरण्यज्ञानानन्तरं वह्निनिरूपितधूमनिष्ठा व्याप्तिः प्रत्यक्षेण चक्षुरादिना गृह्यते । तदनन्तरं पर्वतसमीपं गतः । तत्र धूमो दृष्टः । धूमदर्शनानन्तरं धूमाग्नयोः यो स्वाभाविकः सम्बन्धः पूर्वं गृहीतोऽस्ति तमवधारयतीति व्याख्याने मूलविशिष्टपदमात्रेणार्थबोधो न भवति । तदर्थं विशिष्टपदं व्याख्यातम् । सहचारेणेत्यादि । ततो नानुपलब्धिः । (अ) सामान्यलक्षण प्रत्त्यासत्ति ।
ननु व्याप्तिर्ग्रहीतुं प्रत्यक्षेण न शक्यते, अतीतानागतधूमादिनिष्ठा व्याप्तिः, सन्निकर्षव्यतिरेकेण गृह्यते [इति]चेत्, न । तत्रालौकिकीसामान्यलक्षणप्रत्यासत्तिस्तिष्ठति । तथा च सामान्यमेव लक्षणं
१. B धूमवानयमिति सन्देहा.. २. B -कत्वम् । तत्र. ३. B
घटवान् यत्र. ४. A भवतीति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org