________________
१०४
तर्कतरङ्गिणी स्वरूपं यस्याः सा, तथा च 'सामान्यज्ञानं वा सन्निकर्षः । सा च प्रत्यासत्ति तत्रैव भवति । तदाश्रयेण येन-केनचित्समं लौकिकसन्निकर्षस्तिष्ठति । यथा धूमादिस्थले महानसे यदा वह्निनिरूपित धूमनिष्ठा व्याप्ति गुह्यते चक्षुषा तदा धूमवत्त्वेन रूपेण यावतां धूमवतामुपस्थितिर्जाता, वह्निमत्त्वरूपेण यावतां वह्निमतामुपस्थितिर्जाता वह्नित्वेन वा रूपेण यावतां धूमवतामुपस्थितिर्जाता तथा चासनिकृष्टादि यावद्धर्मज्ञानमपेक्ष्यते तत्सामान्यलक्षणप्रत्यासत्त्यैव भवति । तत्र सन्निकर्षान्तराभावात् । ततो व्याप्तिप्रत्यक्षं प्रति सामान्यलक्षणप्रत्यासत्त्यैव भवति [इति]सिद्धान्तः ।।
ननु सामान्यलक्षणप्रत्यासत्तिसद्भावे किं प्रमाणमिति चेत्, न । ज्ञानेच्छाकृतीनां क्रमेण कारणत्वम् । ज्ञाने [ने ?]च्छा जन्यते, इच्छया च प्रकृतिः (कृतिः ?) । तथा चेच्छाऽसिद्धविषयिणी जायते, यथा-पाको मे भवत्विति सिद्धपाकस्य ज्ञानं वर्तते । तत्रेच्छा न जायते, तस्य सिद्धत्वात् सिद्धे चेच्छाविरहात् । तथा च यस्य “पाकस्यालौकिकसन्निकर्षाभावेन ज्ञानासम्भवेनासिद्धे पाके इच्छैव न स्यात् । तथा चासिद्धपाकज्ञानार्थं पाकत्वरूपा सामान्यलक्षणा स्वीक्रियते, अज्ञाते पाके इच्छाविरहात् । ततो भविष्यत्पाकेन समं सन्निकर्षान्तराभावात् पाकत्वमेव सन्निकर्षः । एवं कृतावपि “कृतित्वेन रूपेणागामिनी या कृतिः तस्यां अपि ज्ञानं कृतित्वरूपसामान्यलक्षणया भविष्यतीति केचित्, तन्न। पाकत्वप्रकारिकेच्छां प्रति पाकत्वप्रकारकं ज्ञानमेव कारणम् । तथा च पाकत्वप्रकारकं ज्ञानं सिद्धपाकविषयकं जातम् । यथा पाक इति-एतज्ज्ञानानन्तरं पाको मे भवत्वित्याकारिकेच्छा पाकत्वप्रकारकाऽसिद्धविषयिणी जायते । ज्ञानेच्छयो: सामानप्रकारकत्वेनैव कार्यकारणभावकल्पनात्, आवश्यकत्वात् । न तु समानविषयत्वेनापि ।
अयमत्र प्रघट्टः-प्रसिद्धपाकज्ञानार्थं भवता सामान्यलक्षणा प्रत्यासत्तिः स्वीकर्तव्या । अन्यथा पाके इच्छा एव न स्यात् । तस्यां पाकज्ञानसाध्यत्वात् । यस्य पाकस्य ज्ञानं वर्तते स तु सिद्ध एव। सिद्धे चेच्छा विरहादिति । अत्र दूषणं यथा-पाकत्वप्रकारकेच्छां प्रति पाकत्वप्रकारं ज्ञानं कारणं न तु समानविषयकमा कोऽर्थः ? यद्विषयकं ज्ञानं तद्विषयिणी एवेच्छेति न । गौरवात् । तथा पाकत्वप्रकारकं ज्ञानं सिद्धपाकविषयत्वं जातम् । तदनन्तरमपि सिद्धे पाके इच्छा जायते ।
ननु ज्ञानेच्छयो: समानप्रकारकत्वेनैव कार्यकारणभावो न समानविषयत्वेनापि तदाऽति प्रसङ्गः। यथा घटत्वप्रकारत्वज्ञानान्तरं घटत्वप्रकारिका पटविषयिणीच्छा भवतु, समानप्रकारकत्वेनैव ज्ञानेच्छयोः कार्यकारणभावकल्पनात् । भवता समानविषयत्वं क्लृप्तं नास्ति । तद्वारणार्थं समानविषयत्वमपि कार्यकारणभावे निवेशनीयम् । तथा च समानप्रकारकत्वे सति समानविषयत्वेन ज्ञानेच्छयोः कार्यकारणभावो वाच्यः । तथा चासिद्धपाकज्ञानार्थं सा मा स्वीकर्तव्येति चेत् न । १. A सामान्यसामान्यज्ञानं. २. B omits येन. ३. PI. add अथ च धूमत्वनिरूपणेन यावतां धूमानामुपस्थितिर्जाता. ४. B पाकेऽलौ. ५. B कुतकत्वेन. ६. B omits न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org