________________
तर्कतरङ्गिणी
१०५
समानप्रकारकत्वेनैव कार्यकारणभावकल्पनात् । न चोक्तातिप्रसङ्गः । यद्धर्मप्रकारकं ज्ञानं जातं तद्धर्माश्रये यत्र कुत्रचिदिच्छा जायते, ततः घटत्वप्रकारकं ज्ञानानन्तरं पटे इच्छा न जायते तद्धर्माश्रयत्वाभावादिति सामान्यलक्षणा न स्वीकर्तव्या । केचित्तु तत्स्वीकारे सन्निकृष्टधूमे व्याप्तिसन्देहो न स्यात् । सन्निकृष्टधूमेन समं वह्निसामानाधिकरण्यं गृहीतमेव । धूमो वह्निव्याप्यो न वेति सन्देहस्तु सर्वजनसिद्ध एवेति । अयं च सन्निकृष्टधूमे न जायते, जायते चासन्निकृष्टधूमे । असन्निकृष्टधूमज्ञानार्थं सा मा स्वीकर्तव्या । सन्देहं प्रति धर्मज्ञानस्य कारणत्वादिति ।
तदसत् । सन्देहं प्रति तन्मते धर्मिज्ञानस्य कारणत्वाभावात् । सन्निकृष्ट एव धूमे वह्निव्याप्य त्वस्य सन्देहात् । न च सन्निकृष्टधूमे वह्निव्याप्यत्वं प्रत्यक्षेण गृहीतमिति कथं तत्सन्देह इति वाच्यम्। सन्निकृष्टे धूमे किमेतद्द्वह्निव्याप्यत्वं वा गृहीतं वह्नित्वावच्छिन्नवह्निव्याप्यत्वं वा गृहीतम् । यद्येतद्वह्निव्याप्यत्वं गृहीतं तदैतद्वह्निव्याप्यत्वविषयकसन्देहोऽपि न जायते । यदि द्वितीयः पक्षः तदा वह्नित्वव्यवच्छिन्नवह्निव्याप्यत्वज्ञानानन्तरं सन्देह एव न जायते । जायते च यदा वह्नित्वावच्छिन्नवह्निव्याप्यत्वं न गृहीतमिति । तथा चायं सन्निकृष्टे धूमे यद्यप्येतद्वह्निव्याप्यत्वग्रहानन्तरं एतद्वह्निव्याप्यत्वसन्देहो' भविष्यत्येव । सन्निकृष्टे धूमे वह्नित्वावच्छिन्नवह्निव्याप्यत्वाग्रहात् । तथा च व्याप्यत्वसन्देहार्थमपि सामान्यलक्षणा स्वीकर्तव्येति भावः । ननु सामान्याभावज्ञानार्थं सा स्वीकर्तव्या, यथा भूतले घटो नास्तीति, अत्र घटत्वावच्छिन्नप्रतियोगिताकाभावो बुध्यते, तदभावस्य प्रतियोगिनः भवन्त्यतीतानगतवर्तमानाः घटाः, तेषां ज्ञानं प्रकारान्तरेण न सम्भवति, तैः सह सन्निकर्षाभावात्, सामान्यमेव प्रत्यासत्तिरिति चेत्, न । अभावज्ञानं प्रति प्रतियोगितावच्छेदकावच्छिन्नं यत्र किञ्चित्प्रतियोगिज्ञानं कारणत्वम्, लाघवात् । न च यावत्प्रतियोगिज्ञानं गौरवात् । घटत्वप्रकारकं ज्ञानमपेक्ष्यतेऽतीतानागतज्ञानापेक्षणात् ।
वस्तुतस्तु अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वमेव नास्ति, व्यभिचारात् । यत्राभावस्येदंत्वेन रूपेणाभावे प्रत्यक्षता भवति तत्र प्रतियोगिज्ञानं विनाऽप्यभावज्ञानम् । यथेदं तमोदर्शने इदंत्वेन रूपेण ज्ञाने तमसि भावत्वाभावत्वसन्देहात् । अत एवेदंत्वेन रूपेणोपस्थिते तमसि भावत्वाभावत्वसन्देहो जायते । भवन्मतेऽप्यभावत्वसामान्यलक्षणप्रत्यासत्त्या प्रतियोगिज्ञानव्यतिरेकेणापि अभावमात्रप्रत्यक्षत्वात् ।
न च प्रतियोगिविशेषिताभावज्ञानं प्रति प्रतियोगिज्ञानं कारणम्, यथा घटो नास्तीति प्रतियोगिविशेषिताभावज्ञानं भवतीति वाच्यम् । इदं तु "विशिष्टवैशिष्ट्यं बोधं प्रति विशेषणतावच्छेदकप्रकारकं ज्ञानं कारणम् । न तु प्रतियोगिज्ञानादिकम् यथा नील१. Pl. add न भवति, तथापि वह्नित्वावच्छिन्नवह्निव्याप्यत्वसन्देहो. २. A omits तमसि ३ B - योगिज्ञानविशे.. ४. विशिष्टवैशिष्ट्यबोधान्नातिरिच्यते । तथा च.
तर्क. - १४
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org