________________
१०६
तर्कतरङ्गिणी घटवद्भूतलनीलरूपविशिष्टो यो घटस्तस्य वैशिष्ट्यं भूतल(ले) भासते । अत्र च विशेषणं भवति घटः, तनिष्ठा या विशेषणता तस्यावच्छेदकं भवति नीलरूपमिति तत्प्रकारकं ज्ञानं कारणम् । तथा च विशिष्टवैशिष्ट्येन बोधत्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन भिन्न एव कार्यकारणभावः । अयं त्वभावज्ञानं प्रति प्रतियोगिज्ञानकारणतावादिनाऽपि स्वीक्रियते । तथा च प्रतियोगिविशेषिताभावज्ञानं प्रत्यपि प्रतियोगिज्ञानस्य कारणत्वं नास्ति । न च प्रतियोगिज्ञानं विना 'यदाऽभावेन सममिन्द्रिय सम्बद्ध विशेषणता वर्तते तदा नेति बुद्धिर्भवतु । न चैवं कस्यापीति वाच्यम् । इन्द्रियसम्बद्धविशेषणतायाः प्रतियोगिविशेषिताभावज्ञानत्वस्य कार्यतावच्छेदकत्वकल्पनात् । यथा भूतले घट नास्तीति, अत्रेन्द्रियसम्बद्धविशेषणतासमत्वे प्रतियोगी भवति घटः । तद्विशेषिताभावज्ञानं कारणमिति तेन नेति बुद्धिर्न भवति । तथा च सामान्येति । लक्षणा सामान्याभावप्रतियोगिज्ञानार्थमपि न सिध्यति ।
'पक्षधरमिश्रास्तु यावत्तेजः संसर्गाभावः तम इति अन्धकाररूपाभावकूटप्रत्यक्षं प्रति तेजोरूपप्रतियोगिज्ञानं कारणम् । तथा च यस्य तेजसाऽन्धसो वृत्तः प्रागभावो वा तिष्ठतीति, यस्य तेजस्तत्प्रतियोगिज्ञानमपि कारणम्, तज्ज्ञानं च सामान्यलक्षणाव्यतिरेकेण, अतः सा स्वीकर्तव्या । तन्मन्दम् । तेजः सामान्याभावस्यैवान्धकारत्वात् । किमर्थमन्धकारत्वं तेजोभाव]कूटस्य । तथा चोक्तरीत्यासामान्याभावज्ञानं प्रति यत्किञ्चित्प्रतियोगिज्ञानं कारणम् । तथा च वर्तमानतेजोज्ञानमेव कारणमिति न सामान्यलक्षणासिद्धिः ।
वस्तुतस्तु घटप्रागभावप्रत्यक्षार्थं सा स्वीकर्तव्या । तथाहि यथेह कपाले घटप्रागभावे एतज्ज्ञानं प्रति अनागतघटज्ञानं कारणं नातीतवर्तमानघटज्ञानम् । अतीतवर्तमानयोः प्रागभावप्रतियोगित्वाभावेन घटाभावप्रत्यक्ष प्रति कारणत्वं भ्रमः । प्रागभावप्रतियोगी त्वनागत एव घट इति तज्ज्ञानं च "न सामान्यलक्षणप्रत्यासत्तिव्यतिरेकेण तत्प्रत्यक्षे घटत्वमेव सन्निकर्ष इति । (ब) ज्ञानलक्षणा प्रत्यासत्तिः ।
__ अलौकिक प्रसङ्गात् ज्ञानलक्षणा । यथा-'सुरभि चन्दनम्' इत्यत्र सौरभ्यस्य ज्ञानं जायते । "ज्ञानलक्षणप्रत्यासत्त्या पूर्वं घ्राणेन यस्मिञ्चन्दनखण्डे चन्दनखण्डत्वावच्छेदेन ‘वा सौरभं गृहीतं तस्मिन्नेव चन्दनखण्डे चन्दनखण्डत्वावच्छिन्ने वा 'सुरभि चन्दनम्' इति कालान्तरे चक्षुरादिना गृह्यते, तदा चाक्षुषः सुरभिगन्धेन समं, ज्ञानरूपा प्रत्यासत्तिः सा तु सौरभलक्षणधर्मस्यैव । न चैवं सुरभित्वरूपसामान्यलक्षणयैव प्रत्यक्षं भवत्विति वाच्यम् । सा सामान्यलक्षणा धर्मिणः प्रत्यासत्तिः । यथा घटत्वरूपो धर्मो घटस्य धर्मिणः प्रत्यासत्तिः, ज्ञानलक्षणा च धर्मस्यैव । यथेन्द्रियान्तरेण
१. B योऽभावेन. २. B मिश्रास्तु. ३. B तेजस्त्व. ४. भ्रमः, कः ? प्राग.. ५. B on its न. ६. B - लक्षणम् । यथा. ७ B. -लक्षणे यथा. ८. A omits वा. ९. B तथैव. १०. B प्रत्यासत्तित्वं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org