________________
तर्कतरङ्गिणी
१०७ घ्राणादिना यद्गृहीतं 'सौरभादिकं तदिन्द्रियान्तरेण चक्षुरादिना गृह्यते, तदा ज्ञानलक्षणप्रत्यासत्त्यैव । (क) योगजधर्मलक्षणा प्रत्यासत्तिः ।
योगजधर्मलक्षणा प्रत्यासत्तिस्तु ईश्वरसाक्षात्कारार्थं स्वीक्रियते । ईश्वरेण समं सन्निकर्षान्तराभावात्, योगजधर्म एव सन्निकर्षः । तथा च योगाभ्यासं कृत्वा जातो यो धर्मः आत्मनि संस्कारविशेषः स एव योगजधर्म इत्युच्यते । यदा योगीनामीश्वरविषयकनिर्विकल्परूपसाक्षात्कारो जायते तदेश्वरेण समं योगजधर्म एव सन्निकर्ष इति दिक् । (VIII) परार्थानुमानम् ॥
वाक्येति वाक्येन प्रयुक्तो वाक्यजन्यो यः परामर्शः तत्परार्थानुमानम् । यथा किञ्चित्प्रति केनचिदुक्तं पञ्चाङ्गविशिष्टं पर्वतो वह्निमानित्यादिरूपमनुमान-कथा वादः । तथा च 'वादिना सह पञ्चावयवप्रयोगनियमः क्रियते, उभाभ्यां पञ्चावयवप्रयोगः कर्तव्य एवेति, तदानीमेकतरेण न्यूनावयवकरण[मि]तरस्य निग्रहस्थानमायातीत्यर्थः । अतथाभूतवादीति तथा च पञ्चावयवप्रयोगान्तरेण परामर्शोत्पत्तिरेव न स्यादित्यादि दूषणमलग्नमेव । अत एवाह-आप्तेति वह्निव्याप्यधूमवानयमित्यादि लक्षणा[णमा ?]सवाक्यादित्यर्थः ।
अनाप्त इति 'आभासे उक्तं-शब्देनैव साध्यस्य वह्ने: बोधो भवतु, किमर्थमनुमानम् ? तथा च शाब्दी प्रमाऽनुमितिरिति । तदुपर्युच्यते-अनाप्त इति । न हि वह्निसम्बन्धप्रतिपादकवाक्याभावात् तद्बोधतात्पर्येणोच्चारित: यो शब्दो वह्निव्याप्यधूमवानित्यादि वाक्यमनाप्तोक्तमेव मतुबर्थस्य धूमेन सममन्वयान्न वह्निसममित्यर्थः । यथा घटशब्दोच्चारानन्तरं पटबोधः न भवति, यथा-वह्नि व्याप्यो यो धूमस्तद्वानयमिति शब्दोच्चारानन्तरं धूमवत्त्वस्यैव बोधो न वह्नि(हे)रिति अनाप्तोकत्वमिति भावः । (VX ) हेतुत्रयनिरूपणम् ॥
व्यापकनिवृत्तिमिति यत्र व्यापकनिवृत्तिरभावस्तत्र व्याप्यस्य साऽपि निवृत्तिरत्यन्ताभावः । यथा धूमस्य व्यापको भवति वह्निः, संयोगसम्बन्धेन यत्र वयभावो वर्तते, तत्र संयोगसम्बन्धेनैव धूमाभावरूप व्यापकस्यावश्यं भावात् । तता चान्वयव्याप्तौ यद्व्यापकं वह्निरूपं तस्य योऽभावः, स च व्यतिरेकव्याप्यो भवति । अन्वयव्याप्तौ यद्व्याप्यं धूमरूपं तदभावो व्यतिरेकव्याप्तौ व्यापको भवति। तथ च वक़्यभावव्यापकत्वं धूमाभावस्य चेदं वक़्यभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधूमाभावत्वम् । यथा यत्र यत्र वल्यभावस्तत्र तत्र धूमाभाव इति व्यतिरेकव्याप्तिः। १. B सौरभ्यादि.. २. A भ्यासेन कृ.. ३. A यथा. ४. A omits अत एवाह. ५. B अभासे. ६. B तथोद्बोध.. ७. B अन्याऽऽप्तोक्त..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org