________________
१०८
तर्कतरङ्गिणी तस्मादिति मूलम् अन्वयव्याप्यव्यापकाभावादित्यर्थः । तदेतन्निष्ठेति मूलम् । तदेव व्यापकं य। व्याप्यं विहायापि तिष्ठति । यथा धूमं विहायाप्ययोगोलके वह्निस्तिष्ठति । धूमस्तु वह्निं विहाय न तिष्ठति।
यच्छब्देति यत्र यच्छब्देति-यत् प्रथमत उच्चार्यते तस्यैव व्याप्यत्वम् । यथा यत्र धूमस्तत्र वह्निरिति, तच्छब्देन पश्चादुच्चार्यते तस्य व्यापकत्वम् । प्राथम्यं नाम प्रथमत उच्चारणम् । अन्यथा तत्र वह्निर्यत्र धूम इत्युच्चारेऽपि व्यापकाव्यापकभावप्रतीतिः "स्यात् । न चेष्टापत्तिः । शिष्टानां तथाऽनाचारात् । यथा पर्वतो वह्निमानित्येवानुमिति: पर्वतविशेष्यिका स्वीक्रियते । न तु पर्वते वह्निरित्यनुमितिरिति ।
अन्यथेति मूलम् व्यतिरेकव्याप्तावित्यर्थः । आधिक्येति यदुभाभ्यां वादिभ्यां नियमत्वे क्लृप्तो भवति परस्परमन्वयव्याप्तिरेवोच्चारणीया, तदा व्यतिरेकव्याप्त्युच्चारेऽऽधिक्यं नाम निग्रहस्थानं भवतीत्यर्थः । अन्वयव्याप्त्यैव चरितार्थत्वेन व्यतिरेक व्याप्तिनिरूपणेऽऽधिक्यं नाम निग्रहस्थानसम्भवादिति भावः । यदा तूभयवादिभ्यां व्यतिरेकव्याप्ति प्रदर्शनस्यैव नियमः कृतः, तदा 'व्यतिरेकव्याप्तिरेव प्रयुज्या, नान्वयव्याप्तिरित्यताह-व्यतिरेक्यपीति इदं त्विति यदा वादिभ्यां पञ्चावयवप्रयोगसङ्केतकृतः भवेत्तदाऽन्वयव्याप्तिः प्रयोज्या । यदि सामान्यतो व्याप्तिमात्रं प्रदर्शनीयमिति सङ्केतः कृतस्तदा व्यतिरेक व्याप्तिरपि प्रदर्शनीयेति भावः ।
नन्विति यद्यन्वयमात्रेणैवसामानाधिकरण्यमात्रेणैवान्वयिता तदा व्यतिरेकोऽपि हेतुर्न स्यात् । यथा केवलव्यतिरेकीहेतुर्भवति-'पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्'-इति "एतस्याप्यन्वयित्वमेव, पक्षे साध्येनेतरभेदेन समं हेतोः पृथिवीत्वस्य सामानाधिकरण्यादित्यर्थः । तथा चान्वयित्वे सपक्षहेतुसाध्ययोः सामानाधिकरण्यं प्रयोजकम्, न तु पक्ष इत्याशङ्कार्थः ।
'व्यतिरेकमानं दर्शयति-जीवदिति ज्ञानावच्छेदकं शरीरमित्यर्थः । सात्मकत्वमिति । ननु सात्मकं किमात्मसंयोगित्वं चेत्, तदाऽसाधारण्यं स्यादित्यत्राह-ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगाश्रवत्वकार्यत्वम् । अस्यार्थो-यथा ज्ञानसमानाधिकरणश्वासौ ज्ञानकारणी भूतश्चासौ संयोगः शरीरात्मसंयोगः । तदाश्रयत्वे सति कार्यत्वम् । ज्ञानसमानाधिकरणो नाम-ज्ञानाधिकरणे वर्तमानः-ज्ञानजनकीभूतो नाम ज्ञानकारणमपि भवति । एतादृशो यो संयोगः शरीरात्मसंयोगः तदाश्रयत्वे सति कार्यत्वमित्यर्थः कार्यत्वमित्युक्ते घटादावतिव्याप्तिः, अत उक्तं संयोगाश्रयत्वेति । तथापि तत्रैवातिव्याप्तिः, अत उक्तं ज्ञानकारणीभूतेति । तथा च घटस्य यद्यपि संयोगाश्रयत्वे सति
१. B अन्वयव्याप्तिव्यापकभा.. २. A omits व्याप्यं. ३. B विहायायो.. ४. A स्यादिष्टा.. ५. B -प्तिपदस्य तस्यैव. ६. Bomits व्यतिरेक. ७. B -न्वयत्व.. ८. B व्यतिरेकी जीवदिति. ९. B omits the reading between ननु...........स्यादित्यत्राह.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org