________________
तर्कतरङ्गिणी
१०९ कार्यत्वं वर्तते तथापि ज्ञानकारिणीभूतसंयोगाश्रयत्वं नास्ति । तथापि त्वगिन्द्रियेऽतिव्याप्तिः, तस्यापि ज्ञानकारणीभूतत्वग्मन:संयोगाश्रयत्वे सति कार्यत्वात् । तत उक्तं-ज्ञानसमानाधिकरणेति पदम् । ज्ञानं चात्मनि, त्वगमनःसंयोगस्त्वचि मनसि च । तत्र ज्ञानाभावात् सामानाधिकरण्यत्वं नास्तीति । ज्ञानसमानाधिकरणस्तु शरीरात्मसंयोग एव । यद्यपि मरणावस्थायामपि शरीरात्मसंयोगो वर्तते, 'आत्मना नित्यत्वव्यापकत्वाभ्यां तथापि 'स: न ज्ञानजनकीभूतादृष्टविशेषो नास्तीति ।
__ अथवा भोगसमवायिकारणतातिरिक्ते भोगाधारत्वं सात्मकत्वम् । भोगस्य समवायिकारणमात्मा, तदतिरिक्तो भोगाधारो भवति शरीरं तदाधारत्वम् । पक्ष एवेति यत्रापि करणे साध्यं निश्चित नास्ति, स एव पक्षपदेन गीयते । अन्यतेति यदि च साध्यत्वेनैव पक्षता तदा पक्षस्यापि सपक्षत्वादिति विरोधः स्यात् । कुत्रचित्पक्षोऽपि सपक्षोऽस्तीति विरोध: स्यादित्यर्थः ।
नन्वन्वयिनी व्यतिरेकिणी चानुमित्योः को भेदः, इत्यत आह अन्वयिनीति ‘पर्वतो वह्निमान्' इत्येवानुमितिः । व्यतिरेकिणी तु वढ्यभावाभाववानिति भेद इत्यर्थः । अन्यस्येति पर्वतो (ते)वह्निः, पर्वते वक़्यभावाभाव इत्यादीनामप्रमाणिकत्वमित्यर्थः । ननु व्यतिरेकित्वं किमिति-अत आहव्यतिरेकित्वमिति तथा च 'पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्' इत्यत्रेतरभेदरूपसाध्यस्य विपक्षो भवति जलादिः, ततो व्यावृत्तिर्वतते पृथिवीत्वस्य, तेन पृथिवीत्वं व्यतिरेकी हेतुः ।
ननु व्यतिरेकमात्रेणाभावो यस्य वर्तते इति, एतावन्मात्रेण व्यतिरेकित्वमिति; तथा' सति केवलान्वयिनि व्यतिरेकित्वं स्यादित्यत आह अयमिति 'अयं घटः आकाशात्यन्ताभाववान्, कालात्यन्ता भावात्;-इत्यत्राकाशात्यन्ताभावो भवति साध्यः, कालात्यन्ताभावो भवति हेतुः । यत्र यत्र कालात्यन्ताभावस्तत्र तत्राकाशात्यन्ताभावः । कालाकाशात्यन्ताभावयोः सर्वत्र वर्तमानत्वात् केवलान्वयित्वम् । यदि व्यतिरेकित्वमात्रेण व्यतिरेकित्वमुच्यते तदा कालाकाशयोरपि व्यतिरेकः प्रसिद्धः वर्तते । आकशात्यन्ताभावव्यतिरेकस्याकाशस्वरूपात् कालात्यन्ताभावस्य व्यतिरेकस्य कालत्वात् । तथा च केवलान्वयिन्यपि व्यतिरेकः प्रसिद्धः एव । न चात्यन्ताभावप्रतियोगित्वं केवलान्वयित्वमिति केवलान्वयिलक्षणं दुष्टं जातम्, आकाशात्यन्ताभावस्याकाशात्यन्ताभावप्रतियोगित्वात् आकाशरूपात्यन्ताभावस्य प्रतियोगी भवत्याकाशाभावस्तथाचाकाशात्यन्ता भावस्यात्यन्ताभावप्रतियोगित्वेन केवलान्वयित्वेऽव्याप्तिरिति वाच्यम् । वृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव केवलान्वयित्वात् । वृत्तिमान् योऽत्यन्ताभावस्तदप्रतियोगित्वम् । तथा चाकाशात्यन्ता
१. B आत्मानात्मत्वव्यापकत्वाभ्यां. २. B omits सः न. ३. B नन्वयेन व्यतिरेकेण चान.. ४. B तथा च सति-. ५. A केवलान्वयिनः. ६. B अयं प्रघट्टः. ७. B -त्यन्ताभावस्तु.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org