________________
तर्कतरङ्गिणी
१०१ तर्कस्य भूयोदर्शनजन्यसंस्कारजन्यत्वे सति स्मृतित्वापत्तिरित्यत आह-स्मृतित्वेचेति । तावन्मात्रं संस्कारमात्रं न कारणम् ।
अयं भावः-यत्र ज्ञाने संस्कारोद्बोधकं तिष्ठति तत्र संस्कारमात्रेण यज्ज्ञानमुत्पद्यते तत्रैव स्मृतित्वमिति भावः । तथा च व्यभिचारज्ञानाभावविशिष्टं सहचारज्ञानं कारणं व्याप्तिग्रहे इति सिद्धम्।
ननु यत्र वढ्यभाववद्वृत्तिर्घटो वह्निसमानाधिकरणो धूम इति यत्र समूहालम्बनं ज्ञानं जातं तदनन्तरं धूमो वह्निव्याप्य इति वह्निनिरुपितधूमनिष्ठव्याप्तिज्ञानं न स्यात्, प्रतिबन्धकस्य व्यभिचारज्ञानस्य सत्त्वादिति चेत्, न । हेतुनिष्ठस्यैव व्यभिचारज्ञानस्य प्रतिबन्धकत्वात् । प्रकृते व्यभिचारज्ञानं घटे वृत्तधूमे तु नास्तीति न दोषः ।
ननु तथापि द्रव्यत्वं वयभावववृत्ति वह्निसमानाधिकरणो धूमश्चेति समूहालम्बनात्मकज्ञानान्तरं धूमो वह्निव्याप्य इति वह्निनिरूपित धूमनिष्ठव्याप्तिज्ञानं न स्यात्, द्रव्यत्वेन रूपेण धूमेऽपि व्यभिचारज्ञानसत्त्वादिति चेत्, न । प्रकृतहेतुतावच्छेदकरूपेण 'प्रकृतहेतौ यद्व्यभिचारज्ञानं तदेव व्याप्तिग्रहे प्रतिबन्धकम् । प्रकृते च हेतुतावच्छेदकं भवति धूमत्वम् । तेन रूपेण व्यभिचार ज्ञानाभावात 'द्रव्यं वह्नयभाववद्वृत्ति'-इति ज्ञानं वह्निव्याप्तिज्ञानं प्रतिबन्धकं न भवतीति । तथा च प्रकृते हेतुनिष्ठं यद् वह्नयभाववद्वृत्तित्वज्ञानं तद् वह्निव्याप्तिज्ञानं प्रति प्रतिबन्धकम् । तदभाव:व्यभिचारज्ञानाभावः कारणम्।
ननु सहचारज्ञानस्य व्याप्तिग्रहे कारणत्वे किं प्रमाणमिति चेत्, अत्र पक्षधरमिश्रा:विरुद्धस्थले सहचारभ्रमे व्याप्तिग्रहो दृश्यते । यथे 'यं गौः, अश्वत्वात्'-इत्यत्राश्वत्वं गोत्वसमानाधिकरण इति भ्रमे जातेऽश्वत्वं गोत्वव्याप्यमिति व्याप्तिग्रहो जायते । - अयं भाव:-यदा गोत्वाभाववद्वत्यश्वत्वमिति अथ च गोत्वाश्वत्वसमानाधकरणमश्वत्वमिति तदा व्याप्तिग्रहो न जायते । व्यभिचारज्ञानस्य प्रतिबन्धकस्य सत्त्वात् । यदा तूक्तरूपव्यभिचारज्ञानं नास्ति, अथ चोक्तरूपं सहचारज्ञानमस्ति तदा व्याप्तिग्रहो भ्रमरूपो जायते एवेति सहचारज्ञानस्यापि व्याप्तिग्रहे कारणत्वमिति सक्षेपः ।
व्याप्तिज्ञानस्येति-तथा चान्वयव्यतिरेकाभ्यां व्याप्तिज्ञानमनुमिति प्रति कारणम् यथा व्याप्तिज्ञानं कारणं तथा पक्षधर्मताज्ञानमप्यनुमितौ कारणम् । तथा च व्याप्तिविषयकंव्याप्तिप्रकार यत्पक्षधर्मताज्ञानं तदनुमिति प्रति कारणम् । यथा वह्निव्याप्यधूमवानयमिति धूमोपरि व्याप्तेः प्रकारत्वेन भानात् । यदि व्याप्तिप्रकारकत्वमिति विवक्षा न क्रियते तदा किन्नु व्याप्तिविषयत्वमिति, तदा प्रमेयमिति ज्ञानानन्तरं वह्निमानित्यनुमितिः स्यात् । व्याप्तिविषयकपक्षधर्मताज्ञानसत्त्वात् । प्रमेयमित्यत्रापि व्याप्तेरपि विषयतया भानात् । तेन व्याप्तिप्रकारकं ज्ञानं विवक्षितम् । प्रमेयमिति ज्ञानं च प्रमेयत्वप्रकारकं न १. B -भिचारिज्ञा.. २. B प्रकृतकृतौ.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org