________________
१००
तर्कतरङ्गिणी सर्वधर्मव्यापकत्वादेव । तथा चैतादृशधर्माप्रसिद्धा व्याप्तिलक्षणस्याव्याप्तिरिति भावः । यद्यपि चेति येषां मते भूयोदर्शनं व्याप्सिग्रहणं प्रति कारणम्, तेषां मते तृतीयज्ञानमपि भूयो दर्शनं भवति । तृतीयस्यापि बहुत्वात् । तन्मते केनचित् दूषणं दत्तम् । सकृद् धूमदर्शनमेव व्याप्तिग्रहं प्रति कारणम्। प्रथमद्वितीययोरविद्यमानत्वात् विद्यमानं यत्तृतीयं ज्ञानेव तदेव कारणमिति मीमांसकाः । तत्र भूयोदर्शनकारणत्ववादिना समाधीयते । प्रथमद्वितीयज्ञानाभ्यां संस्कारौ जन्येते, ताभ्यां संस्काराभ्यां तृतीयभूयोदर्शनज्ञानसमये व्याप्तिसामानाधिकरण्यं स्मृतिरूपं ज्ञानं जन्यते । तेन भूयोदर्शनं जन्यत एव। इदं व्याप्तिग्रहरूपं मानसं ज्ञानं जायते । तत्र व्याप्तिग्रहरूपसंस्कारसहितेन मनस्येव जन्यते इति जीर्णनैयायिकमतं दूषयति-तदपिनेति । व्याप्तिज्ञानस्य संस्कारजन्यत्वेन स्मृतित्वापत्तिः । प्रथमव्याप्तिग्राहस्य न्यायमतेऽनुभवत्वात् सहचारविषयकसंस्कारेण व्याप्तिविषयकं स्मरणं कथं न जननीयमिति बोध्यम् । स्मृतिसंस्कारयोः समानविषयत्वेन समानप्रकारकत्वेन वा कार्यकारण भावकल्पनात् । अन्यथा घटविषयकसंस्कारेण पटविषयकं स्मरणं जन्यते । तथा चैतावता ग्रन्थेन मीमांसक- मतं यत्सकृदर्शनमेव कारण तेषां मतेनोपाधिकत्वरूपा व्याप्तिरनुपाधिकत्वं भवत्युपाध्यभावः । स च हेतौ ग्राह्यः । सदुपाध्यभावः हेत्वतिरिक्तो न भवति । तेषां मतेऽधिकरणस्वरूपस्यैवाभावात् । तथा च यदा धूमेन समं सन्निकर्षो जायते, तदनन्तरं धूमज्ञानं जायते, तस्मिन्नेव क्षणे व्याप्तिज्ञानमपि जातमेव । धूमज्ञानस्य व्याप्तित्वात् । तथा च भवन्मते व्याप्सिग्रहं प्रति सकृद्दर्शनमेव कारणम् । 'तत्तु नैयायिकेन दूषितम् । अनौपाधिकस्य व्याप्तित्वे इदं सम्भवति । तदेव न सम्भवति, पूर्वरीत्या दूषितत्वात् । प्राचीन न्यायमते 'व्याप्तिग्रहं प्रति साध्यहेतुसहचारभूयोदर्शनं व्याप्तिग्रहे कारणम्, तदप्युक्तरीत्या नवीनैर्दूषितम् । तथा च व्याप्तिग्रहं प्रति सकृदर्शनभूयोदर्शनयोः कारणत्वं न सम्भवतीति कारणाभावात् व्याप्तिग्रहो न सम्भवतीति तद्ग्रहाभावत् परामर्शरूपमनुमानं न सम्भवतीत्यनुमानं न प्रमाणमिति चार्वाकाः ।
तत्र नैयायिकः समाधत्ते-व्यभिचारादर्शनेनेति तथा च व्यभिचारादर्शनं व्यभिचारज्ञानाभावः । अथ च हेतुसाध्यसहचारदर्शनमेतद्वयं व्याप्तिग्रहे कारणम् । तच्चेति उक्तरूपव्यभिचारज्ञानाभावसहकृतं सहचारदर्शनम् । तच्छङ्कासाधारणंसन्देहसाधारणम् । तत्र च हेतौ या शङ्का जायतेयथाऽयं हेतुः साध्यव्यभिचारी न वेति । उपाधिसन्देहात् व्यभिचारशङ्का भवति । तथा चोपाध्यभावस्य व्यभिचारशङ्कानिवृत्तावुपयोगः तदर्थमपेक्ष्यत इत्यर्थः ।
ननु तर्हि भूयोदर्शनस्य कुत्र चोपयोग इति चेत्, तत्राह-भूयोदर्शनेति भूयोदर्शनजन्यो यो संस्कारः तस्यानुकूलतर्के उपयोगः । तेनानुकूलतर्को जन्यते । तथा च भूयस्सु स्थानेषु सहचारदर्शनं जातम् । तदनन्तरमनुकूलतर्कावतारो भवति । यथा-यदि निर्वह्निः स्यात् तदा निधूमः स्यादिति । ननु १. B -ग्रहं. २. B -प्तिज्ञानं. ३. A omits तत्तु. ४. B omits the reading between व्याप्तिग्रह......तथा च ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org