________________
तर्कतरङ्गिणी
योग्यतेत्यर्थः । यथाऽत्र घटश्वेत्स्यात् तदोपलभ्येत इति तर्कितं घटसत्त्वमापद्यते । तद्विरोधिभाव नोपलभ्यते न दृश्यते । तस्माद् घटये नास्तीत्यर्थः ।
वास्तवमिति नोपलभ्यत इतिरूपो विपर्ययश्च शब्देन तद्विपरीतं तर्कितप्रतियोगिसत्त्वविपरीतं तदभावज्ञानमित्यर्थः । तथा कारणे इति विपर्ययपर्यवसानकरणेऽनुमानम् - यथाऽत्र घटो नास्तीति घटाभावः साध्यः । घटस्यानुपलभ्यमानत्वादित्यर्थः । प्रत्यक्षेणेति मूलम् - चक्षुरादिनेत्यर्थः ।
९९
प्राचीनमुत्थाप्य दूषयति नन्विति अनुपाधिकत्वमुपाध्यभावो यत्र हेतौ तत्र स [T]व्याप्तिः । इदं दूषयति-यत्किञ्चिदिति साध्यव्यापकत्वे सति साधनाव्यापकत्व 'मुपाधिरिति । तल्लक्षणं तदभावो व्याप्तिरिति न सङ्गच्छति । अत्र विकल्पद्वयं यथा यत्किञ्चित्साध्यव्यापकसाधनाव्यापकत्वनिषेधो वा क्रियते - साध्यव्यापकसाधनाव्यापकत्वनिषेधो वा क्रियते ?
प्रथमं दूषयति पर्वत इति अत्र प्रसिद्धानुमाने यत्किञ्चित्साध्यव्यापकसाधनाव्यापकरूपो' स च को धर्मस्तत्रास्तीति दर्शयति- गुणव्यापकेति यत्किञ्चित्साध्यं भवति गुणरूपं तस्य व्यापिका भवति सत्ता, "यथा गुणसामानाधिकरण्यात्यन्ताभावप्रतियोगितानवच्छेदकधर्मावच्छिन्ना । इदमेव व्यापकत्वम्, सत्तायां गुणस्येति । अथ च भावरूपहेतो: या कुत्रापि वर्तमानस्याव्यापिका भवतीति भावत्वसामानाधिकरण्यात्यन्ताभावप्रतियोगिनी सत्ता सामान्यादौ सत्ताभावात् । तथा च यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मः सत्तालक्षणो जातः, स च धर्मो वह्निसाध्यके धूमे हेतौ तिष्ठतीति लक्षणासम्भवः ।
द्वितीयं दूषयति-प्रकृतेति धूमानुमाने वह्निः प्रकृतसाध्यं सिध्यतीति यदि वह्निव्यापको धूमाव्यापको धर्मः कोऽपि प्रसिद्धः तदापि प्रतियोगिनो प्रसिद्धत्वात्तदभावो निषेद्धुमशक्य इत्यर्थः । द्वितीयपक्षे प्रतियोगिप्रसिद्धमानेतुं शङ्कते नन्विति प्रकृतेति 'प्रकृतसाध्यव्यापकं यस्य धर्मस्य व्यापकं तद्भिन्नत्वं व्याप्तिः । तिष्ठति चेदं 'वह्निमान् धूमात्' इत्यत्र यथा प्रकृतसाध्यं भवति वह्निः । तस्य व्यापिका भवति वह्निसामग्री । साऽव्यापिका भवति यस्य द्रव्यत्वस्य तद्भिन्नत्वं धूमे वर्तते इति कृत्वा धूमे व्याप्तिः । व्यभिचारिणि चेदं नास्ति । प्रकृतसाध्यो भवति धूमः, तस्य व्यापको भवत्यार्द्रेन्धनसंयोग : । स चार्द्रेन्धनसंयोगोऽव्यापको यस्यायोगोलकीयवह्नेः तद्भिन्नत्वं वह्नौ नास्तीति साध्यव्यापकत्वपदेन विवक्षितमित्यर्थ ।
दूषयति-यथा 'घटोऽभिधेयः, प्रमेयत्वात्' इत्यत्र साध्यमभिधेयत्वम् । तस्य व्यापको धर्मो भवति वाच्यत्वरूपः । स यस्य धर्मस्याव्यापक इति वक्तुं न शक्यते । वाच्यत्वस्य १. B - त्वमुदाहरति २. B रूपो धर्मस्तत्रा.. ३. It is गुणत्वव्या. in त. भा. प्र. ४. B omits यथा. ५. B साध्यको. ६. B प्रकृतिसाध्यं. ७. Pl. add तदा तदभावो निषेद्धुमशक्यः, यदि वाऽप्रसिद्धः ८ B प्रकृतिसा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org