________________
तर्कतरङ्गिणी
वाऽतीन्द्रियो वा त [था]विकल्प्य दूषयति मूलकारः- न चेतीति तथा च द्वितीये पक्षे यो दोषः दत्तः [सः]कल्पयितुमशक्यत्वरूपः । तं व्याचष्टे - अनुमानेति तथा च यद्यतीन्द्रियोपाधिः स्वीक्रियते तदाऽनुमानमात्रस्योच्छेदः स्यादित्यर्थः ।
९८
अत्राद्यं तात्पर्यार्थः- यदि प्रसिद्धानुमानेऽतीन्द्रियोपाधिः उद्भाव्यते तदा भवता तत्सद्भावे प्रमाणं वाच्यम् । तत्सदतीन्द्रियसद्भावे प्रत्यक्षं प्रमाणं वक्तुमशक्यम् । उपाधेरतीन्द्रियत्वात् । वक्तव्यं चानुमानम् । तत्राप्यतीन्द्रियोपाधिर्मयोद्भाव्यः एवेति भवताऽप्युपाधेरतीन्द्रियत्वं साधयितुं न शक्यतेइति नातीन्द्रियोपाधिरुद्भाव्यः ।
योग्योपाधिव्यतिरेकेति प्रत्यक्षोपाध्यभावो योग्यानुपलब्ध्या निश्चीयते । यद्यत्र कश्चिदुपाधिः स्यात् तदोपलभ्येत । नोपलभ्यते, ततो नास्तीति तर्काकाररूपयोग्यानुपलब्धिज्ञातव्य इति मणिकृन्मतम् । प्रकृते योग्योपाध्यभावो ग्राह्यस्तथा चाभावज्ञानं प्रति योग्यानुपलब्धेरपि कारणत्वं क्लृप्तं वर्तते । यथा घटाभावज्ञानं प्रति घटस्य योग्यानुपलब्धि कारणं भवति । सा च मणिकृन्मते तर्कविशेष एव । यथा घटाभाव ज्ञानस्थलेऽत्र घटचेत् स्यात् तदोपलभ्यते, तस्मात् नास्तीति तर्करूपाप्रतियोगिनमारोप्यात्र निषिध्यते । तत्रैवैतादृशी तर्करूपा योग्यानुपलब्धिर्ज्ञातव्या ।
'उदयनाचार्यमते तु प्रतियोगिव्याप्येतरसकलसदुपलम्भकसमवधाने सति प्रतियोग्यनुपलम्भः। प्रतियोगिनः प्रत्यक्षरूपपक्षज्ञानाभावः प्रतियोग्यनुपलब्धिरेव योग्यानुपलब्धिः ।
अयमर्थः- प्रतियोगी घटादिः । प्रतियोगिव्याप्यश्च घटभूतलादिसंयोगः । यथा यत्र घटसंयोगस्तत्र घट इति । तदितरा या तदुपलम्भिका तस्य घटादेः प्रत्यक्षरूपज्ञानजनिका सकलसामग्रीप्रतियोगिज्ञानरूपा, तत्समवधाने सति प्रतियोगिनो घटादेः योऽनुपलम्भः प्रत्यक्षरूपज्ञानाभावः स एव योग्यानुपलब्धिपदेन गीयते । यथा भूतले घटये नास्तीति अभावप्रत्यक्षे प्रतियोगी भवति घटः, तद्व्याप्यो भवति घटसंयोगः, तदतिरिक्ता घटप्रत्यक्षज्ञानजनिका सामग्री घटत्वज्ञानादिरूपा । तत्समवधाने सति यत्र घटानुपलम्भो घटप्रत्यक्षाभावः तत्र घटाभावप्रत्यक्षं जायते' इति योग्यानुपलब्धिर्भवत्यभावज्ञानं प्रति कारणम् ।
अयं भावार्थ:-यत्र घटादिज्ञानजनिका सामग्री सर्वा प्रतियोगि[नं ] प्रति व्याप्यातिरिक्ताऽस्ति तत्रैवाभावज्ञानं जायते । घटेन्द्रियसन्निकर्षोऽपि घटव्याप्य एव । यत्र च समवायसम्बन्धेन घटेन्द्रियसन्निकर्षः तत्र स्वरूपसम्बन्धेन घट इति घटघटेन्द्रियसन्निकर्षोऽपि सामग्रीः । तदतिरिक्तघटाभावज्ञानेन्द्रियसम्बद्धविशेषणतादिरूपाऽन्यापेक्ष्यते ।
मणिकारमतेनानुपलब्धिलक्षणमाह - अनुपलब्धौ इति तर्कितेति या विरोधिता सैव
१.२. This portion in A is worn out by insects. ३. B आचार्यमते. ४. B जातम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org