________________
९७
तर्कतरङ्गिणी वा भूयांसि दर्शनानि-इतिवा? नाद्यः, 'अयमेतद्रूपवान्, एतद्वशात्'-इति सद्वैतौ व्याप्त्यग्राहपत्तेः, तत्र स्थानानां भूयस्तत्वात् पक्षरूपाधिकरणस्यैकत्वात् । नापि द्वितीय: 'अयमेतद्रूपवान्, इत्यत्रैव व्याप्त्यग्रहापत्तेः । न तृतीयः, व्यभिचारिण्यपि व्याप्तिग्राहपत्तेः । यथा 'धूमवान् वह्निः,' इत्यत्रैकस्मिन्नवाधिकरणे महानसादौ धूमवह्निसामानाधिकरण्यज्ञानानि धारावाहिकरूपाणि वृत्तानि । तत्रापि भूयोदर्शनसत्त्वात् व्याप्तिग्रहापत्तेरिति पक्षद्वयमुपेक्ष्य तृतीयपक्षे दोषमाह
नन्विति -'सप्तमो मैत्रीतनयो गर्भस्थो श्यामो भवितुमर्हति, मैत्रीतनयत्वात्,-इत्यत्र श्यामत्वमैत्रीतनयत्वयोः सामानाधिकरण्यग्रहाणां भूयस्त्वात् तदधिकरणानां षण्णां च भूयस्त्वात् व्याप्तिग्रहापत्तेः । तथा चान्वयव्यभिचारो भवति । यथा भूयोदर्शनं वर्तते व्याप्तिग्रहो न जायते । सर्वत्रोक्तव्यभिचारादेव भूयोदर्शनस्य कारणत्वं नास्तीत्यर्थः । तथा चोक्तव्यभिचारात् भूयोदर्शनं[न] व्याप्तिज्ञानमेव(स्य)कारणम् । किन्तु व्यभिचारज्ञानाभावविशिष्टसहचारज्ञानमेव व्याप्तिज्ञाने कारणम् । तज्ज्ञाने सत्येव व्याप्तिग्रहादिति सिद्धान्तरहस्यम् ।
तत्रेति भूयोदर्शनस्य व्याप्तिग्राहकत्वपक्षे यद्दूषणं दत्तं 'स श्यामो मैत्रीतनयत्वात्' इत्यत्र व्याप्तिग्रहापत्तेरितिरूपम्, तस्य विकल्पद्वयं कृत्वा दूषयति-व्याप्तीति-यदि तत्र व्याप्तिग्रहस्य प्रमात्वमापद्यते तदा दोषमाह विषयाभावादिति विषयोऽत्र श्यामत्वनिरुपिता व्याप्तिः । सा च मैत्रीतनयत्वे नास्ति । ततो च विषयबाधादेव न प्रमेत्यर्थः । यदि भ्रमरूपो व्याप्तिग्रह आपद्यते तदेष्टापत्तिरित्याह-अन्त्यस्त्विति ननु व्यभिचारदर्शने विद्यमाने भ्रमरूपं व्याप्तिज्ञानं कुतो न भवतीति चेत् न । कारणाभावात् । कारणमाह-यदीति तथा च व्यभिचारज्ञानाभावविशिष्टदोषाभावविशिष्टसहचारज्ञानं व्याप्तिप्रमा प्रतिकारणम् । भ्रमं प्रति तु व्यभिचारज्ञानाभावविशिष्टदोषविशिष्टसहचारज्ञानं कारणम् । तथा च प्रकृते यद्येतादृशं ज्ञानं तिष्ठति तदा व्याप्तिज्ञानं भ्रमरूपं स्यादेव कारणसत्त्वात् । एतदेवाह-व्यभिचारदर्शनेति तथा च व्यभिचारादर्शनसहकृतं सहचारज्ञानमात्रं तत्र व्याप्तिप्रमा जायते। 'यत्र दोषविशिष्टं व्यभिचारज्ञानाभावविशिष्टसहचारज्ञानं तत्र व्याप्तिभ्रमः । अत्र हि विषयाभाव एव दोष इति तात्पर्यम् ।
तस्येति शाकाद्यन्नपरिणति भेदस्येत्यर्थः । नन्वत्र किं प्रयोजकत्वमिति चेत्, कारणत्वमेव प्रकृते ग्राह्यम् । यथा नरश्यामत्वं प्रति शाकाद्यन्नपरिणतिभेद एव कारणम् । प्रयोजकचेति तथा च प्रयोजकशब्देनोपाधिः परिभाषित इति भावः ।
ननु 'वह्निमान् धूमात्' इत्यत्रापि कश्चिदुपाधिर्भविष्यतीत्यत आह-नन्विति तथा यदि धूमे हेतौ वह्निसाधके 'क्रियते एवं नीलधूमत्वादित्यत्र' कश्चनोपाधिरस्ति, तदा स योग्यो नाम । प्रत्यक्षो १. B तत्र. २. B omits the reading between क्रियते....त्वादित्यत्र. ३. This portion in A is worn out by insects. तर्क.-१३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org