________________
९६
तर्कतरङ्गिणी व्यासिविषयकज्ञानजन्यो संस्कारो 'वृत्तः । तदनन्तरं 'पर्वते पर्वतवृत्तिधूमेन समं सन्निकर्षो जातः । तदनन्तरं शुद्धधूमज्ञानं जातम् । इदमेव धूमज्ञानं व्याप्तिविषयकसंस्कारोद्बोधकं भवति । धूमज्ञाने व्याप्तिविषयकसंस्कारोद्बोधके सति व्याप्तिविषयकसंस्कारेण व्याप्तिविषय[क] स्मरणं जन्यते । एकतरसम्बन्धिज्ञानं च धूमज्ञानम्, अन्यतरसम्बन्धिज्ञानं च व्यायाप्तिज्ञानम् । यथा हस्तिपकदर्शनानन्तरं हस्तिनः स्मरणं जायते "तथा पर्वतवृत्तिधूमदर्शनान्तरं व्याप्तिस्मरणं जायते । जाते च व्याप्तिस्मरणे वह्निव्याप्यधूमवानयमिति लिङ्गपरामर्शरूपं तृतीयं ज्ञानं जायते । तथा च पर्वते प्रथमतो धूमेन्द्रियसन्निकर्षानन्तरं धूमज्ञानं, तदनन्तरं व्याप्तिस्मरणं तदनन्तरं परामर्श इति प्राचीनन्यायमते । यदि धूमव्याप्तिधूमयोः पर्वते संस्काररूपोद्बोधकवशादेकदैव यत्र स्मरणं भवति तदनन्तरं परामर्श इति द्वितीयपरामर्श इत्यनुमितिकारणम् ।
इदानीं प्रथमज्ञानस्यापि लिङ्गपरामर्शत्वं स्थापयति-धूमादिति अत्रपदेति यत्र धूमपदश्रवणानन्तरं धूमे शक्तिग्रहो जातः । यथाऽयं धूमपदवाच्य इति । तदनन्तरमासवाक्यश्रवणं यथा 'रे बालक, वह्निवाप्यधूमवानयमिति' प्रथमलिङ्गपरामर्शादप्यनुमितिर्जायते । तथा च तृतीयलिङ्गपरामर्शेनैवानुमितिर्जायते इति नियमो नास्तीति भावः ।
ननु भवता लिङ्गपरामर्शस्य तृतीयत्वं व्युत्पादितं तदपि न सम्भवतीत्याह-नन्विति तथा च व्यप्तिग्राहकं भवति सहचारदर्शनम् । प्रथमतो महानसे धूमवढ्योः सहचारदर्शनम्, तदनन्तरं गोष्ठे, तदनन्तरं चत्वरे, तदनन्तरं पर्वते धूमज्ञानम् । तदनन्तरं व्याप्तिस्मरणम् तदनन्तरं लिङ्गपरामर्श इत्यनया प्रणाल्या धूमज्ञानानां बहुत्वमेव तृतीयमित्याशङ्कार्थः ।
व्याप्तीति तथा च व्याप्तिग्रहमारभ्य लिङ्गपरामर्शस्य तृतीयत्वमुक्तं न तु सहचारज्ञानमारभ्य । तथा च प्रथमतो महानसादौ व्याप्त्यनुभवः प्रथमः, तदनन्तरं पर्वतवृत्तिधूमदर्शनानन्तरं व्याप्तिस्मरणमिति [द्वितीयं] तदनन्तरं वह्निव्याप्यधूमवानयमिति परामर्श इति तृतीयमित्यर्थः ।
ननु पर्वतवृत्तिधूमज्ञानानन्तरमेव परामर्शः कथं नोत्पद्यते, किमर्थं व्याप्तिस्मरणापेक्षा इति चेत्, न। तत्र व्याप्तिरूपविशेषणज्ञानाभावात् विशिष्टज्ञानं प्रति विशेषणज्ञानस्य कारणत्वकल्पनात् । प्रकृते तु परामर्शरूपं वह्निव्याप्य धूमवानयमिति-इदं व्याप्तिविशिष्टधूमज्ञानम् । अत्र धूमोपरि व्याप्तेः विशेषणतया भानात् । तेन व्याप्तिस्मरणं विशेषणज्ञानत्वेनावश्यमपेक्ष्यमेव । तद्व्यतिरेकेण तदनुत्पादादिति । नन्वत्र किं व्याप्सिविशिष्टधूमज्ञानं ग्राहकमत आह-भूयोदर्शनमिति । ननु भूयोदर्शनशब्देन किमुच्यते ?- भूयस्सु स्थानेषु दर्शनं भूयोदर्शनमिति । भूयसां दर्शनं भूयोदर्शनमिति १. B वृत्तिः । २. B om its पर्वते and reads पर्वतवृत्तिधूमसन्निकर्षो. ३. A omits च धूमज्ञानम्. ४. B यथा. ५. It is धूमादिपदेति in त. भा. प्र. ६. A omits प्रथमः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org