________________
९५
तर्कतरङ्गिणी स्यात् । साध्यसामानाधिकरण्यावच्छेदकत्वं प्रकृते द्रव्यत्वसामानाधिकरण्यान्यूनवृत्तित्वं सत्तात्वे । यथा यत्र यत्र सत्तायां द्रव्यत्वसामानाधिकरण्यं तिष्ठति, साध्यसामानाधिकरण्यापेक्षया न्यूने सत्तात्वं न वर्तते। इत्यव्याप्तिः । नाप्यनतिरिक्तवृत्तित्वं साध्यसामानाधिकरण्याभाववद्वृत्तित्वमिति यावत्-'इदं वाच्यम् । प्रमेयात्' इत्यत्र साध्यसामानाधिकरण्याभाववत्याकाशे प्रमेयत्वस्य वृत्तेः ।
अत्रोच्यते साध्यसामानाधिकरण्याधिकरणभिन्नावृत्तित्वमेव साध्यसामानाधिकरण्यावच्छेदकम् । तथा च 'वाच्यम्, प्रमेयात्'- इत्यत्र साध्यसामानाधिकरण्यावच्छेदकं वृत्तिमत्प्रमेयत्वमेवेत्युक्तमेवेति संक्षेपः । (v) व्याप्तिज्ञानस्यानुमिति प्रति कारणता ।
__ अथवाऽनुमिति प्रति व्याप्तिज्ञानं वा कारणम् । स्वरूपसती व्याप्तिः । स्वरूपमात्रं वा कारणमित्यत्र स्वरूपसत्याः कारणत्वं दूषयति ।- नन्विति तथा च व्याप्तिज्ञानमेव कारणम् । अन्यथा व्याप्तिसत्त्वे व्याप्तिज्ञानाभावेऽप्यनुमितिः स्यात् । व्याप्तेधूम एव सत्त्वादिति भावः । (VI) लिङ्गपरामर्शनिरूपणम् ।
तस्येति लिङ्गस्येत्यर्थः । तृतीयं ज्ञानम् । व्यभिचारविरोधीति 'वह्निव्याप्य धूमवान्यम्'इति ज्ञानं व्यभिचारज्ञानविरोधिपक्षधर्मताज्ञानं भवति । यत एतादृशज्ञाने विद्यमाने वयभाववृत्तिधूम इति व्यभिचारज्ञानानुदयात् पक्षधर्मताज्ञानमात्रं व्यभिचारिण्यप्यस्ति । यथाऽयोगोलकं धूमवत्, वह्निमत्त्वात्-इत्यत्रेत्यर्थः ।
तृतीयत्वमिति नन्वेवं प्रथमद्वितीयज्ञाने जाते सत्यनुमिति न स्यात्, तत्र परामर्शाभावात् । भवन्मते तृतीयज्ञानस्यैव परामर्शत्वादिव्यत आह-व्याप्तीति तथा द्वितीयज्ञानमपि परामर्शो भवति । तथोच्यते ग्रन्थकारेण व्याप्तीति व्याप्तिसंस्कार इति कोऽर्थः व्याप्तिविषयको यो संस्कारः, तस्य यदुद्बोधकं धूमज्ञानातिरिक्तमदृष्टादिकं तत्सद्भावे यदा धूमेन समं सन्निकर्षो जातस्तदा व्याप्तिधूमयोः युगपदेकदैव स्मरणे जाते सति सनिकृष्टे पर्वते प्रथममेव लिङ्गपरामर्शो जायते । महानसापेक्षया व्याप्तिज्ञानं प्रथमतो यज्जातं तदपेक्षया पर्वते यद्वह्निव्याप्यधूमवानयमिति ज्ञानं यज्जातं तद द्वितीयमेवेत्येतदेवाह-तस्य चेति
__ अयमत्र "प्रघट्टकार्थ :-यथाश्रुते तृतीयलिङ्गपरामर्शोऽनया रीत्या भवति-यथा प्रथमतो महानसवृत्तिधूमे धूमत्वावच्छेदेन वह्निनिरूपिता धूमनिष्ठा व्याप्तिर्गृहीता । तदनन्तरमात्मनि तज्जन्यो१. B सत्त्वात् ना[ना]त्वे. २. B यद्बोधकं. ३. B युगपदेव स्मरणे. ४. A प्रघट्टार्थ:.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org