________________
९४
तत्सहितसाध्याभावसमुदायाधिकरणं भवत्यालोकः । पुनरालोकावृत्तित्वावच्छिन्नप्रतियोगिताकाभावोऽपि साध्यताभावसमुदायावृत्तित्वाभावो भवति । तद्वत्त्वं च धूमे नास्तीति । तथा च निर्वह्निवृत्तित्वस्यालोकावृत्तित्वेन रूपेण योऽभावो वर्तते स आलोकमात्रे तिष्ठति । यथा घटयवृत्तित्वावच्छिन्नप्रतियोगिताकाभावस्तु घटमात्रे तथाऽऽलोकावृत्तित्वप्रतियोगिताकाभावस्त्वालोके तिष्ठतीति । तद्वत्त्वं च धूमे नास्तीत्यव्याप्तिरिति चेत्, न । साध्याभावसमुदायाधिकरणवृत्तित्वाभावस्तु साध्यसमुदायाधिकरणवृत्तित्वत्वव्यापकप्रतियोगिताको ग्राह्यः । तथा च निर्वह्निवृत्तित्वस्य यो वर्ततेऽऽलोकावृत्तित्वावच्छिन्नप्रतियोगिताकाभावः सः साध्याभाव समुदायाधिकरणवृत्तित्वत्वव्यापकप्रतियोगिताको न भवति । यत्र यत्र साध्याभावसमुदायाधिकरणवृत्तित्वत्वं तत्र तत्रालोकवृत्तित्वावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगिता नास्ति । साध्याभाव समुदायाधिकरणवृत्तित्वं तिष्ठति निर्वह्निवृत्तित्वे । आलोकावृत्तित्वावच्छिन्नप्रतियोगिता नास्तीत्यमभावो न ग्राह्य एवेति संक्षेपः ।
तथा च शिरोमणिस्थं व्याप्तिलक्षणमिदं व्यधिकरणधर्मार्वाच्छन्नप्रतियोगिताकाभावघटितम्, यथा साध्याभावसमुदायाधिकरणवृत्तित्वत्वसमनियतप्रतियोगिताकाः यावन्तोऽभावावृत्ति - मद्वृत्तयस्तद्वत्त्वमिति । एतल्लक्षणविचारो हरिदासटिप्पणात् ज्ञेय इति दिक् ।
इति व्याप्तिलक्षणं साध्यसामानाधिकरण्यावच्छेदकं टीकाकृता कृतम् ।
इति व्याप्तिलक्षणव्याख्या ॥
तर्कतरङ्गिणी
(IV) अवच्छेदकत्वस्वरूपम् ।
-
अत्रावच्छेदकत्वं नाम स्वरूपसम्बन्धविशेषः । तस्य गुरुधर्मेऽभावात्, अनेकपदार्थघटितं यद्धेतुतावच्छेदकं तत्गुरुधर्मः । यथाऽयं घटः कम्बुग्रीवादिमत्त्वात्' इति हेतुः कृतः । तत्रेदं लक्षणमव्याप्तं स्यात् । साध्यं भवति घटत्वं तत्सामानाधिकरण्यावच्छेदकं च कम्बुग्रीवादिमत्त्वत्त्वं न भवति । तस्य गुरुधर्मत्वात् । यतो गुरुधर्मेऽवच्छेदकस्वरूपसम्बन्धरूपं केनापि न स्वीक्रियते ।
Jain Education International 2010_05
एवं नीलधूमत्वात्-इत्यत्रापि लाघवात् धूमत्वमेवावच्छेदकम् । 'वह्निमान् धूमप्रागभावात्' इत्यत्राप्यव्याप्तिः स्यात् । 'गुरुधर्मेऽवच्छेदकत्वाभावात् । अवच्छेदकत्वाभाव एव परिभाषा एवेति नाप्यविच्छित्ति प्रत्यजनकत्वं व्यावृत्तिबुद्धिजनकत्वमिति यावत् । जनकत्वं च नियमघटितं नियमस्याव्याप्तित्वादात्माश्रयात् । नापि सामानाधिकरण्यान्यूनवृत्तित्वम् । यथा यत्र साध्यसामानाधिकरण्यं तत्र तत्र स धर्म इति । तथा सत्ता- 'द्रव्यं सत्त्वात्' इत्यत्राव्यभिचारिण्यतिव्याप्तिः १. B - लोकावच्छिन. २. B निवह्नित्वे । ३. B गुरुधर्मे तावदने. ४. B गुरुधर्माभावात् ।
For Private & Personal Use Only
www.jainelibrary.org