________________
९३
तर्कतरङ्गिणी
व्यावृत्तिर्यथा-वृत्तिमद्वृत्तिपदं किमर्थमिति चेत्, व्यभिचारिण्यतिव्याप्तिवारकत्वात् । यथा'धूमवान्, वह्नेः' इति । अत्र साध्याभावसमुदायाधिकरणं भवति निर्धूमदेशः । 'निर्धूमवृत्तित्वस्यापि यो घटत्वेन रूपेणाभावः तद्वत्त्वं वह्नौ तिष्ठतीत्यतिव्याप्तिः । तद्वारणार्थं वृत्तिमद्वतीति पदम् । तथा च निधूमवृत्तित्वाभावस्य वृत्तिमदृत्तित्वाभावान्नातिव्याप्तिरिति केचित् । 'तन्न । निधूमवृत्तित्वस्यापि वृत्तिमदृत्तित्वात् । वृत्तिमानपदार्थो भवति धूमः । तद्वृत्तित्वं निघूमवृत्तित्वाभावे वर्तते । तद्वत्त्वं च वह्नौ नास्तीति व्यभिचारिणि नातिव्याप्तिः ।
वस्तुतस्तु तददाने प्रमये घटत्वादित्यत्राव्याप्तिः । कथमिति चेत्, अत्र साध्यं प्रमेयत्वम्, प्रमेयत्वा भावसमुदायाधिकरणं भवति जगति । यतः प्रमेयत्वेन प्रमेयत्वाभावोऽप्रसिद्ध इति घटत्वेन प्रमेयत्वेन प्रमेयत्वाभावोऽप्रसिद्ध इति घटत्वेन प्रमेयत्वाभावो. व्यधिकरणधर्मावच्छिनप्रतियोगिताकाभावे ग्राह्यः । तदधिकरणं भवति जगवृत्तित्वम् । जगद्वृत्तित्वावच्छिन्नप्रतियोगिताकाभावस्त्ववृत्तिपदार्थे वर्तते । तद्वत्त्वं च हेतौ घटत्वे नास्तीत्यव्याप्तिवारणार्थं वृत्तिमद्वृत्तिपदम् । तथा जगद्वृत्तित्वावच्छिन्नप्रतियोगिताकाभावस्तु वृत्तिमद्वृत्ति न भवति । वृत्तिमद्वृत्तिस्तु घटत्वेन जगढत्तित्वाभाव एव । तद् वत्त्वं घटत्वे तिष्ठतीति नातिव्याप्तिः । यावत् पदादाने च व्यभिचारिण्यव्याप्तिः 'धूमवान् वह्नः' इत्यत्र साध्याभावसमुदायाधिकरण्यं भवति निर्धूमदेशः । तद्वृत्तित्वाभावो यो वर्तते घटत्वेन रूपेण स वृत्तिमद्वृत्तिरपि भवति तस्य केवलान्वय(यि)त्वात् । तद्वत्त्वं वह्नौ तिष्ठतीत्यतिव्याप्तिः। अतो यावत् पदम् । तद्दाने तु निर्धूमवृत्तित्वावच्छिनप्रतियोगिताकाभावस्यापि सङ्ग्रहो जातः । तेन यद्यपि घटत्वेन निर्धूमवर्तित्वाभावाधिकरणत्वं वह्नौ तिष्ठति तथापि निर्धूमवर्तित्वावच्छिन्नप्रतियोगिकाभावाधिकरणत्वं नास्ति । वह्नौ नि—मत्वस्य वर्तमानत्वात् नातिव्याप्तिः ।
समुदायपददाने त्विदं वाच्यं घटत्वादित्यत्राव्याप्तिः । साध्याभावाधिकरणं भवति घटः । साध्यं भवति वाच्यत्वम्, तदभावस्तु व्यधिकरणाभावः । यथा गुणत्वेन वाच्यत्वाभावः । तदधिकरणं घटोऽपि भवति तद्वृत्तित्वाभावो यो वर्तते पटदौ, तद्वत्त्वं घटत्वे नास्तीत्यव्याप्तिरिति केचित्, तदपि न। अभावस्य यावत्विशेषणत्वेनैव तत्रातिव्याप्तिवारणात् । तथा च 'वह्निमान् धूमात्' इत्यत्र(त्रा ?) व्याप्तिवारणार्थं समुदायपदम् । यथा साध्याभावाधिकरणं भवति पर्वते, तत्र घटत्वेन वह्निर्नास्तीति व्यधिकरणसाध्याभावोऽस्ति । पर्वतवृत्तित्वाभावस्तु वृत्तिमद्वृत्तिरपि भवति । तद्वत्त्वं धूमे नास्तीति धूमे पर्वतवृत्तित्वस्य सत्त्वात् । तद्वारणार्थं समुदायपदम् । तेन वह्नित्वावच्छित्रप्रतियोगिताकाभावोऽपि ग्राह्यः। तदधिकरणं पर्वतो न भवत्येव । भवति च तदधिकरणं निर्वह्निःदेशः । तद्वृत्तित्वाभावस्तु धूमे तिष्ठतीति नाव्याप्तिः ।
ननु तथापि 'वह्निमान्, धूमात्'-इत्यत्रैवाव्याप्तिः । साध्याभावसमुदायमध्येऽऽलोकावृत्तित्वावच्छिन्न प्रतियोगिताकाभावोऽपि साध्याभावो भवति । स चालोकमात्रे तिष्ठति । १. B निघूमत्वस्यापि. २. B तत्र नि.. ३. B प्रमेयत्वम्. ४. B प्रमेयत्वाभावः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org