________________
९२
तर्कतरङ्गिणी संयोगसामानाधिकरण्याभाववति एतद्वृक्षत्वस्य सत्त्वादतिव्याप्तिरिति चेत्, न । अत्रापि सा प्रतियोग्यसमानाधिकरणसाध्यसमानाधिकरणसाध्यसामानाधिकरण्याभाववद्वृत्तिरूपमवच्छेदकं हेतुतावच्छेदकस्य ग्राह्यम् । तस्य सामानाधिकरण्याभावस्य प्रतियोगिसमाना (धिकरणत्वादिति) भावः ।
तार्किकप्रमोदार्थं सार्वभौमीयं व्यधिकरणधर्मावच्छिनप्रतियोगिताकाभावघटित लक्षणमुपदर्शयते । तथाहि वृत्तिमद्वृत्तयो यावन्तः साध्याभावसमुदायाधिकरणवृत्तित्वाभावाः तद्वत्त्वमित्यर्थः । गच्छति चेदं 'वह्निमान्, धूमात्' इत्यत्र साध्याभावसमुदायाधिकरणं भवति घटदिकम् । ‘कीदृशः तद्वृत्तित्वाभावो वर्तते पटत्वादौ', स च यथा-साध्यं भवति वह्निः तस्य यो घटत्वादिना रूपेणाभाव: एक: । अथ च वह्नित्ववावच्छिन्नप्रतियोगिताकाभावो द्वितीयः । एतयोः द्वयोः समुदायाधिकरणं भवति घयदिकम् । तद्वृत्तित्वाभावो वर्तते पटादौ । स च कीदृशः ?' "वृत्तिमान् पदार्थो भवति पटत्वादिरूपः । तद्वृत्तिर्भवति साध्याभावसमुदायाधिकरणवृत्तित्वाभावः । तद्वत्त्वं धूमे तिष्ठति । न गच्छति चेदं व्यभिचारिणि धूमवान् वढे:-इति । अत्र यथा साध्याभाव समुदायाधिकरणं भवति अयोगोलकं निर्धूमदेशः । निर्धूमदेशे घटत्वेन धूमाभावो वर्तते व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावरूपः । धूमत्वावच्छिन्नप्रतियोगिताकाभावोऽपि वर्तते । तेन साध्याभावसमुदायाधिकरणमयोगोलकं जातम् । तदृत्तित्वात् । भावस्तु वृत्तिर्भवति । 'तत्शब्देनायोगोलकं, तद्वृत्तित्वमयोगोलक वृत्तित्वम् । वृत्तित्वं चायोगोलके प्रसिद्धम् । तदभावस्तु धूमादौ । वृत्तिमति पदार्थवर्तमानत्वे न वृत्तिमद्वृत्ति भवति । तद्वत्त्वं वह्निरूपे हेतौ नास्ति । यतः वहावयोगोलकवृत्तित्वाभावो नास्तीति । अत:लक्षणागमनम् ।
गच्छति चेदं केवलान्वयिनि । यथा घटोऽभिधेयः प्रमेयत्वात्, इत्यत्र व्यधिकरणधर्मावच्छिनप्रतियोगिताकाभाव एव ग्राह्यः । समानाधिकरणधर्मा-वच्छिन्नप्रतियोगिता-काभावासम्भवात् केवलान्वयिनि साध्यतावच्छेदकावच्छिन्न-प्रतियोगिताकाभावस्तु अप्रसिद्धः । ततः प्रथमत एव ग्राह्यः । यथा घटत्वेना भिधेयत्वाभावः एकः, द्वितीयो भवति पटत्वेनाभिधेयत्वाभाव इति । एतादृशाभावसमुदायाधिकरणं भवति जगत्, सर्वत्र घटत्वेनाभिधेयत्वाभावस्य केवलान्वयित्वात् । तथा च जगद्वृत्तित्वाभावोऽपि । जगद्वृत्तित्वावच्छिनप्रतियोगिताकाभावस्तु वृत्तिमद्वृत्त्यैव भवति । तस्य वृत्तिपदार्थमे(-र्थे ए)व वर्तमानत्वात् । तथा च घटत्वेन रूपेण जगद्वृत्तित्वाभावो ग्राह्यः । स तु वृत्तिमद्वृत्तिर्भवति । घटदिरूपवृत्तिमत्पदार्थवर्तमानत्वात्, तस्य तद्वत्त्वं प्रमेयत्वे तिष्ठतीति सुस्थम्।
१. B घटाधिकरणम् | and omits the reading between कीदृशः....पटत्वादौ. २. B omits एकः. ३. B omits the reading between तद्वृत्तित्वाभावो....कीदृशः ?. ४. B वर्तमानप.. ५. B तत्र शब्देना.. ६. B -गोलकः । वृत्ति.. ७. B तदभावे तु. ८. B यथा. ९. B केवलान्वयात्.
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org