________________
तर्कतरङ्गिणी साध्यसामानाधिकरण्यानधिकरणत्वं तु केवलान्वयिन्यवृत्त्याऽऽकाशादेकमेव प्रसिद्धम् । तत्रावृत्तिपदार्थेऽऽकाशादौ प्रमेयत्वं न वर्तते । तस्य च प्रमेयत्वे एव वर्तमानत्वादभिधेयत्वसामानाधिकरण्यावच्छेदकत्वम् ।
केवलान्वयिन्यव्याप्तिमाशङ्कते-नन्विति' 'इदमभिधेयम्, प्रमेयत्वात्-'इत्यत्र यत्प्रमेयं तदभिधेयमित्यत्राव्याप्तिः । तथाहि-अभिधेयसामानाधिकरण्याभाव इत्याकाशे प्रमेयत्वस्य वर्तमानत्वात्। तथा च प्रमेयत्वस्य साध्यसामानाधिकरण्यावच्छेदकत्वं नास्ति । तस्य च साध्यं यदभिधेयं तत्सामानाधिकरण्यानधिकरणं भवत्याकाशम्, तद्वृत्तित्वात् । प्रमेयत्वस्य हेतुतावच्छेदकस्येत्यव्याप्तिमुद्धरति-वृत्तिमदिति तथा च वृत्तिमत्प्रमेयत्वंसाध्यसामानाधिकरण्यावच्छेदकमभिधेयसामानाधिकरण्यानधिकरणे।काशे वृत्तिमत्प्रमेयत्वावृत्तेः वृत्तिमत्पदार्थघटादिके यद्वर्तते प्रमेयत्वम्, तद्वृत्तिमत्प्रमेयत्वम् । इदं चाकाशे नास्ति । वृत्तिमत्त्वविशिष्टं च प्रमेयत्वमाकाशे नास्तीति सिद्धान्तः । यद्यपि हेतुतावच्छेदकं भवति प्रमेयत्वं, तथापि व्याप्त्यवच्छेदकं तु वृत्तिमत्प्रमेयत्वमेव ।
अन्यथाऽनुपपत्त्या कल्प्यते-यत्प्रमेयं तदभिधेयमिति व्याप्त्यवच्छेदकं वृत्तिमत्प्रमेयत्वमेवेति ।
अत्र पक्षधरमते दूषणं दीयते-यथाऽननुग्राहकतावच्छेदकमतिरिक्तमपि ग्राह्यतावच्छेदकं यदि स्वीक्रियते तदा 'धूमवान्, वह्नेः' इत्यादि व्यभिचारमात्रेऽतिव्याप्तिर्वारयितुमशक्या । तथाहि 'धूमवान वह्नः' इत्यत्रापि ग्राहकतावच्छेदकं भवति वह्नित्वं-ग्राह्यतावच्छेदकं च तदतिरिक्तम् । ग्राहकतावच्छेदकातिरिक्तधूमवद्वृत्ति वह्नित्वम्, यथा 'अभिधेयं प्रमेयात्'-इत्यत्र प्रमेयत्वं साध्यसामानाधिकरण्यावच्छेदकं न भवति । तस्याकाशादावपि सत्त्वेनातिप्रसक्तित्वात् ।
तथा च वह्नित्वमपि धूमसामानाधिकरण्यावच्छेदकं यद्यपि न भवति, तस्य धूमसामानाधिकरण्याभाववत्ययोगोलकीयवह्नावपि सत्त्वात् । ततः धूमसामानाधिकरण्यावच्छेदकं धूमवृत्तित्वं वह्नित्वं वाच्यम् । तथा चानया रीत्या सर्वत्र व्यभिचारिण्यतिव्याप्तिर्बाध्येत इति चेत्, न । तत्र केवलान्वयिनि शिष्टैः तथा स्वीकारात् । व्यभिचारिणि च तथा धूमवद्वृत्ति वह्नित्वस्य सामानाधिकरण्यावच्छेदकत्वेऽपि तथाऽनुभवान्नाति व्याप्तिः । ननु 'यथाश्रुते वृक्षः कपिसंयोगी एतत्त्वात्', इत्यत्राव्याप्तिः, तथाहि साध्यसामानाधिकरण्यावच्छेदकत्वं नाम साध्यसामानाधिकरण्यात्यन्ताभाववदृत्तित्वं साध्यसामानाधिकरण्यावृत्तित्वं चेत्यन्यदेतत्, उभयथाऽपि पूर्वोक्तानुमानेऽव्याप्तिः । तथाहि, एतत्त्वे संयोगसामानाधिकरण्यावच्छेदकत्वं नास्ति, संयोगस्याव्याप्यवृत्तित्वात् यद्यपि शाखावच्छेदेन कपिसंयोगो वृक्षे विद्यते तथापि मूलावच्छेदेन नास्ति । मूलावच्छेदेनैतदृक्षत्वे
१. This प्रतीक comes after the next one in त. भा. प्र. २. B -त्यव्यातिः । उद्धरति. ३. A omits च. ४. B -न्वयिविशिष्ट. ५. B -च्छेदकेऽपि. ६. B -त्तित्वात्. ७. A -ऽव्याप्तः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org