________________
तर्कतरङ्गिणी
अस्यार्थो यथाऽभाव एवाधिकरणं' यस्याभावस्य-एतादृशो भावः, अथ चाभाव एव प्रतियोगी यस्य सः चाभावोऽधिकरणस्वरूपमेव, न चाभावरूपाधिकरणातिरिक्तः । अयमर्थःयस्याभावस्याभाव एवाधिकरणम्-अभाव एव प्रतियोगी स चाधिकरणस्वरूपमेव । यथा घटात्यन्ताभावे पटात्यन्ताभावोन्योन्याभावः । न भवतीत्यत्र घटात्यन्ताभावस्वरूपमेव पटात्यन्ताभावान्योन्याभावः । तदतिरिक्ते प्रमाणाभावात् । तथापि प्रकृते हृदत्वात्यन्ताभावो यो वर्ततेऽऽकाशात्यन्ताभावान्योन्याभावः, सोऽप्युक्तरीत्या हृदत्वात्यन्ताभाव एव । तस्य प्रतियोगिद्वयं हृदत्वमाकाशात्यन्ताभावश्च । तथा चाकाशात्यन्ताभावेन प्रतियोगिना समं हृदत्वाभावस्य समानाधिकरणादसम्भवः । सर्वत्रोक्तरीत्या प्रति योग्यसमानाधिकरणात्यन्ताभावाप्रसिद्धाऽसम्भव एव । हृदत्वाद्यभावस्याप्युक्तरीत्या प्रतियोगिसमानाधिकरण एवेति दिक् । शेषं शिरोमणिटिप्पणे ज्ञेयम् ।
पूर्वोक्तदूषणवारणार्थं व्याप्तेर्लक्षणमाह-साध्यसामानाधिकरण्येति साध्यस्य यत्सामानाधिकरण्यं हेतौ तस्य यदवच्छेदकं सामानाधिकरण्यात्यन्ताभावववृत्तित्वरूपं तदेव व्याप्तिरित्यर्थः । लक्षणं संयोजयति-यातीदमिति प्रसिद्धानुमानं उक्तरूपवह्निसामानाधिकरण्यावच्छेदकं भवति धूमवत्त्वम् । यथा वह्निसामानाधिकरण्यावच्छेदकत्वं तु वह्निसामानाधिकरण्यात्यन्ता-भावववृत्तित्वं, तच्च धूमवत्त्वेऽस्त्येव । यथा वह्निसामानाधिकरण्याभावस्तिष्ठति हृदत्वादौ, तवृत्तित्वं वर्तते धूमत्वे इत्युक्तसामानाधिकरण्यविशिष्टं धूमत्वं व्याप्तिः ।
'व्यभिचारिणीति-'धूमवान् वह्नेः' इत्यत्र धूमसामानाधिकरण्यावच्छेदकत्वं वह्नित्वस्य नास्ति। वह्नित्वस्य च धूमसामानाधिकरण्यात्यन्ताभाववान् योऽयोगोलकीयो वह्निस्तत्र वृत्तित्वात् ।
'वृक्षः संयोगी, द्रव्यत्वात्, 'इत्यत्रापि संयोगसामानाधिकरण्यावच्छेदकं भवति द्रव्यत्वम् । यथा यत्र यत्र द्रव्यत्वं तत्र तत्र संयोगसामानाधिकरण्यमिति । द्रव्यत्वं संयोगसामानाधिकरण्यावच्छेदं(दकं) । गच्छति चेदं केवलान्वयिन्यपीत्याह-घट इति प्रमेयत्वमभिधेयत्वसामानाधिकरण्यावच्छेदं भवति । अभिधेयत्वसामानाधिकरण्यावच्छेदकत्वं त्वभिधेयत्वसामानाधिकरण्यात्यन्ताभावववृत्तित्वं, तदत्रस्त्येवेति । अभिधेयत्वसामानाधिकरण्यात्यन्ताभावस्तु आकाशादौ प्रसिद्धः । यतः आकाशेऽभिधेयत्वस्यसामानाधिकरण्य नास्ति । यतोऽभिधेयत्वाधिकरणाधिकरणत्वमाकाशे-एवं वक्तु मशक्यमिति । प्रमेयत्वं चाकाशे नास्ति । तस्य च प्रमे[य]त्वावृत्तित्वात् । साध्यसामानाधिकरण्यावच्छेद-कत्वमुदाहरति-साध्यसामानाधिकरण्यावच्छेदकमिति साध्यस्य यत्सामानाधिकरण्यं साध्याधिकरणत्वरूपं तस्य यदनधिकरणं तदधिकरणभिन्नमिति यावत् । तदवृत्तित्वं सामानाधिकरण्यावच्छेदकत्वम् । तथा च
१. B -धिकरणे. २. A अथवाऽभाव. ३. B व्यभिचारीति But it is as above in the available text of त.भा.प्र. ४. It is सामाना. in the available text of त.भा.प्र. But both A and B read it as above.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org