________________
८९
तर्कतरङ्गिणी प्रतियोगिताका भावस्य घटसामान्य प्रतियोगि, घटविशेषोऽपि नीलघटादिप्रतियोगी, तथा प्रकृतेऽपि यत्र संयोगो द्रव्ये वर्तते तस्य प्रतियोगी संयोगसामान्याभावरूपो यद्यपि नास्ति तथापि यः कश्चित्प्रतियोगी पटसंयोगाभावादिद्रव्ये तिष्ठतीति प्रतियोगिसमानाधिकरण एवैतादृशोऽभावस्तत्र गुणत्वादीनामेव, स च द्रव्ये प्रतियोग्यसमानाधिकरण एव द्रव्ये गुणत्वाभावोऽस्ति । तस्य प्रतियोगिगुणत्वम्, तेन समं गुणत्वाभावस्य सामानाधिकरण्यं नास्तीति । अत एव प्रतियोग्यसमानाधिकरणोऽयमभाव-स्तस्याप्रतियोगि भवति साध्यम् । तत्सामानाधिकरण्यं हेतावस्तीत्यतिव्याप्तिः । एतद्वारणार्थं यत्किञ्चित्प्रतियोग्यसामानाधिकरण्यं वक्तव्यम् । अतो नातिव्याप्तिः।।
यद्यपि संयोगसामान्याभावाभावो यावत्प्रतियोग्यसमानाधिकरणो न भवति तथापि यत्किञ्चित्प्रतियोग्यसमानाधिकरणो भवति, यत्किञ्चित्प्रतियोगि च संयोगसामान्याभावरूपम्, तेन च समसमानाधिकरणो भवति संयोगरूपः साध्यभावः । तत्प्रतियोग्येव संयोगसामान्याभावरूपं साध्यम्। अतो नातिव्याप्तिः । यावत्प्रतियोग्यसामान्याधिकरण्यं यद्यभावविशेषणं रेतदोक्तानुमानेऽतिव्याप्तिः ।
यत्किञ्चित्प्रतियोग्यसामानाधिकरण्यविवक्षायां तु दोषमाह-अयं संयोगविशेषाभाववानिति अयं सद्धेतुः । यथा यत्र यत्र सत्त्वं तत्र समानाधिकरणः संयोगविशेषाभावाभाव इति व्याप्तेः । अत्र सत्त्वहेतुसमानाधिकरणः संयोगविशेषाभावाभावः संयोगलक्षणो वर्तते । तस्य प्रतियोगिनः भवन्ति घटसंयोगविशेषाः, भावादयः तेषां प्रतियोगी भवति यः कश्चित्घटसंयोगविशेषाभावः तेन समं समानाधिकरणो भवति संयोगविशेषाभावाभावरूपः संयोग इति यावत् । तस्य प्रतियोगी भवति संयोगविशेषाभावः साध्यरूपः । तथा च हेतुसमानाधिकरण-प्रतियोग्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वात्, साध्यस्येत्यव्याप्तिरित्यर्थः । .
वस्तुतस्तु ‘दण्डीमान्, दण्डसंयोगात्', इत्यत्र सदनुमानेऽव्याप्तिः । तथाहि हेतुसमानाधिकरणोदण्डि(ण्ड)संयोगः समानाधिकरणो वर्तते । दण्डिनोऽत्यन्ताभावो यस्य कस्यापि दण्डिनः सन् यत्किञ्चित्प्रतियोग्यसमानाधिकरणो भवत्येव । दण्ड्य[न्]तरस्य तत्राभावात्तस्य दण्डिमत्त्यं साध्यं प्रतियोग्येव, ततो व्याप्तिरिति । यद्येतद्वारणार्थं यावत्प्रतियोग्यसामानाधिकरण्यविवक्षा क्रियते तदा एतद्वारणेऽपि पूर्वोक्तासदनुमानेऽतिव्याप्तिः । अपि च स्वसमानाधिकरण इत्यत्र प्रतियोग्यसमानाधिकरणाभावस्तु प्रसिद्ध एव । 'वह्निमान् धूमात्' इत्यत्राप्येतादृशो भावः कोऽपि नास्ति । न च हृदत्वाद्यभाव एवेति वाच्यम् । तस्यापि प्रतियोगिसमानाधिकरणत्वात् । तथाहि धूमसमानाधिकरणो यो हदत्वाद्यभावः तत्राभावे यो वर्ततेऽऽकाशात्यन्ताभावभेदः, सः तु हृदत्वाभावातिरिक्तो न भवति । अभावाधिकरणकाभावप्रतियोगिकाभावस्यातिरिक्तस्यानङ्गीकारात् ।
१. B तथा यः. २. B तथापि भवति यत्कि.. ३. B तदुक्तान..
तर्क.-१२
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org