________________
८८
तर्कतरङ्गिणी धूमाधिकरणे पर्वते किञ्चिद्देशावच्छेदेन वढ्यभावोऽपि तत्प्रतियोग्येव वह्निरस्ति । लक्षणे तु यथाश्रुतदेशपदं पदत्वं (प्रदत्तं ?) नास्तीति ।
ननु द्रव्यस्य संयोगसम्बन्धेनाव्याप्यवृत्तित्वे किं, प्रमाणमिति चेत्–'नितम्बे हुताशनो, न शिखरे' इति प्रतीतिरेव प्रमाणम् । तथा 'कोणे सन्नहं मध्ये तिष्ठामी'ति प्रतीत्या द्रव्यस्याव्याप्यवृत्तित्वमिति । यदि प्रतीतिबलादपि न द्रव्यस्याव्याप्यवृत्तित्वं तदा तद्बलात् संयोगस्याप्यव्याप्यवृत्तित्वं न सिध्येदिति ।
इदं लक्षणं व्यभिचारिण्यतिव्याप्त्या दूषयति-अयमिति वृक्ष इति शेषः । यत्र यत्र सत्त्वं तत्र तत्र संयोगसामान्याभावो नास्ति । द्रव्ये व्यभिचारात् । द्रव्ये कालाकाशादिसंयोगसत्त्वादिति सत्त्वं हेतु
र्व्यभिचारी भवति । अत्रातिव्याति स्पष्टयति-दव्यं इति सत्त्वसमानाधिकरणः प्रतियोगिव्याधिकरणोऽभावो भवति संयोगसामान्याभावाभावः, ''संयोगरूपाभावाभावस्य भावत्वात् सत्त्वाधिकरणे द्रव्ये वर्तते । यथा 'घटः संयोगसामान्या[भावा] भाववान्, सत्त्वात्', इत्यत्र सत्त्वाधिकरणं भवति घटः । तत्रात्यन्ताभावो वर्तते संयोगसामान्याभावस्य संयोगरूपः । तस्य प्रतियोगी भवति संयोगविशेषभावोऽपि पटादिसंयोगाभावोऽपि । तेन समं सामानाधिकरण्यं संयोगसामान्याभावाभावस्य संयोगरूपस्येति ।
तथा च य- सत्त्वसमानाधिकरणः संयोगसामान्याभावाभावरूपः संयोगः, स च यावत्प्रतियोगिव्यधिकरणो न भवति, यथा संयोगसामान्याभावाभावस्य संयोगरूपस्य प्रतियोगिद्वयं भवति संयोगसामान्याभावः, संयोगविशेषाभावश्च । यद्यपि संयोगसामान्याभावेन प्रतियोगिना समं संयोगरूपेणाभावो व्यधिकरणो भवति, तथापि संयोगविशेषाभावेन समं समानाधिकरणो भवति । यत्र द्रव्ये संयोगसामान्याभावाभावः संयोगलक्षणः तिष्ठति, तत्रैव द्रव्ये संयोगविशेषाभावस्तिष्ठति । घटदिसंयोगाभावस्य तत्र सत्त्वात् । तेनायं संयोगसामान्याभावः संयोगरूपो वर्तते । यः सत्त्व हेतुसमानाधिकरण सः प्रतियोगिव्यधिकरणो न भवति । प्रतियोगिव्यधिकरणाभावस्तु गुणत्वादीनामेव। तस्य प्रतियोगी भवति संयोगसामान्यभावः साध्यः । तत्सामानाधिकरण्यं हेतौ तिष्ठतीति । तथा च हेतुसमानाधिकरणाभावस्य यदि यावत्प्रतियोगिप्यधिकरणत्वं विवक्ष्यते तदोक्तानुमाने संयोगसामान्याभावसाधाके सत्त्वे हेतावतिव्याप्तिरिति ।
अयमत्र भावार्थ:-सत्त्वसमानाधिकरणो यः संयोगः सामान्याभावाभावः संयोगलक्षणः तस्य प्रतियोगिद्वयं भवति । संयोगसामान्याभावः संयोगत्वावच्छिन्न प्रतियोगिताको भावः यथा-ऽऽकाशे रूपाभावः । अथ च द्वितीयः संयोगविशेषाभावो घटसंयोगाद्यभावः, यथा-घटत्वावच्छिन्न१. B om its संयोगरूप and reads अभावाभावस्य. २. B omits तत्र. ३. B सत्त्वहेतावति..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org