________________
तर्कतरङ्गिणी
८७ विषयीभूतो भवति । यथा 'शिखी विनष्ट' इत्यत्र पुरुषे विद्यमाने शिखाभाव 'एव कल्प्यते, न तु पुरुषध्वंस इति व्यधिकरण धर्मावच्छिन्नप्रतियोगिताकाभावोऽपि न स्वीकार्य इति सिद्धमिति दिक् ।
अत एवेति यतः साध्यात्यन्ताभाववद्गामित्वं न लक्षणं केवलान्विन्यव्यासेः, तथा साध्यवतो योऽन्योन्याभावः तद्वत्त्वगामित्वमवृत्तित्वहेतोरित्यर्थः । यथा 'वह्निमान् धूमात्' इत्यत्र साध्यवान्वह्निमान् तदन्योन्याभाववान् भवति हृदः । तदवृत्तित्वं धूमेऽस्ति यथा 'हृदो न वह्निमान्' इति केवलान्वयिन्यव्याप्तेः । 'घटोऽभिधेयः, प्रमेयत्वात्'-इत्यत्र साध्यं भवत्यभिधेयत्वं तद्धेतु भवति प्रमेयमात्रम्, अभिधेयत्ववदन्योन्याभावोऽप्रसिद्ध इत्यर्थः ।
केवलान्वयिन्यव्याप्तिवारणार्थं लक्षणान्तरमाह-स्वेति स्वशब्देन हेतुः, तत्समानाधिकरणः, हेत्वधिकरणे योऽत्यन्ताभावः कीदृशः सः ? प्रतियोगिव्यधिकरणः प्रतियोगिना समं योऽभावो व्यधिकरणी भवति-यत्राधिकरणे प्रतियोगी तिष्ठति तत्र सोऽभावो न तिष्ठतीति यावत् । तस्यात्यन्ताभावस्याप्रतियोगि यत्साध्यं तत्सामानाधिकरण्यं हेतौ व्याप्तिरित्यर्थः । यथा 'वह्निमान् धूमात्' इत्यत्र धूमसमानाधिकरणः प्रतियोग्यसमानाधिकरणो हृदत्वाद्यभावः तस्याप्रतियोगि भवति वह्निरूपः (पं) साध्यम् । तेन सामानाधिकरण्यं धूमेऽस्तीति । न गच्छति चेदं 'धूमवान् विह्ने'रित्यत्र वह्निसमानाधिकरणात्यन्ताभावप्रतियोगित्वाद्धूमस्य । गच्छति चेदं केवलान्वयिनि-'घटोऽभिधेयः, प्रमेयत्वात्-' इत्यत्र प्रमेयत्वसमानाधिकरणेऽत्यन्ताभावःप्रतियोगिव्यधिकरणो घटत्वादीनामत्यन्ताभावः, तदप्रतियोगि भवत्यभिधेयत्वम्, तत्सामानाधिकरण्यं प्रमेयत्वेऽस्तीति प्रतियोग्यसमानाधिकरणपदमत्यन्ताभावविशेषणम् । यदा प्रतियोग्यसामनाधिकरण्यपदं न दीयते तदा चायं वृक्षः कपिसंयोगी, एतदक्षत्वात्' इत्यत्र सद्धेतावव्याप्तिः स्यात् । यथा एतदृक्षत्वसमानाधिकरणो यथा घटदीनामभावो वर्तते तथा कपिसंयोगस्यापीति तत्प्रतियोगित्वं कपिसंयोगस्य नास्तीति । तथा च कपिसंयोगाभावस्तु प्रतियोगिव्यधिकरणो न भवति । प्रतियोगिव्यधिकरणो हेत्वधिकरणे घटदीनामेव । तदप्रतियोगित्वं कपिसंयोगस्यास्तीति [अ]व्याप्तिः । तेन हेतोरिति । केचित्तु 'घटः संयोगी, द्रव्यत्वात्' इत्यत्र प्रतियोगिव्यधिकरणपददानेऽव्याप्तिः । यथा द्रव्यत्वसमानाधिकरणोऽभावो वर्तते संयोगस्य संयोगोऽपि वर्तते द्रव्यत्वावच्छेदेन संयोगावृत्तेस्तस्याव्याप्यवृत्तित्वादिति । तप्रतियोगित्वं च संयोगस्येत्यव्याप्तिः । तन्न । द्रव्ये संयोगसामान्याभावस्वीकारात् । यद्यपि संयोगविशेषाभावस्तत्तत्संयोगाभावस्तिष्ठति तथापि संयोगसामान्याभावो द्रव्ये नास्तीत्यव्याप्तिः भवतीति ।
वस्तुतस्तु 'वह्निमान् धूमात्' इत्यत्रैव व्याप्तेः किं प्रसिद्धानुमानेनान्यत्र धावनम् ? तथाहि धूमसमानाधिकरणो वह्वेरप्यत्यन्ताभावस्तिष्ठत्येव । संयोगसम्बन्धेन द्रव्यस्याप्यव्याप्यवृत्तित्वात् । १. B omits एव. २. A वह्रिरित्यत्र. ३. B omits the reading between यदा प्रति०.....................न दीयते. ४. A संयोगस्य नास्तीति व्याप्तिः ।
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org