________________
८६
तर्कतरङ्गिणी केवलान्वयित्वम् । यतो विरोधिनः प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिनः कुत्राप्यसत्त्वात् । यथा घटत्वेन पटो नास्तीत्यत्र प्रतियोगितावच्छेदकं घटत्वं तदवच्छिन्नो पटः, तस्य चैतादृशपटस्याप्रसिद्धत्वात् । यदि चैतादृशः पटः कुत्रचित्तिष्ठेत् तदा तदभावो न तिष्ठेत्तस्मात् घटत्वेन पटाभावः सर्वत्राप्यस्तीति केवलान्वयी व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव इति । तथा च भूतलत्वादिधर्मितावच्छेदकीकृत्य घटत्वांशेऽन्याप्रकारकत्वेन घटत्वेन रूपेण घटाभावज्ञानं प्रति भूतलत्वादिधर्मितावच्छेदकीकृत्य घटत्वेन रूपेण घटज्ञानं प्रतिबन्धकम् । यथा 'भूतले घट' इत्यत्र भूतलत्वं धर्मितावच्छेदकम् । धर्मि च भूतलम् । तत्र घटत्वेन रूपेण घटज्ञानं यदाऽनया रीत्या प्रवृत्तम्, तत्रैव भूतले भूतलत्वं धर्मितावच्छेदकीकृत्य भूतले घटो नास्तीत्यत्र घटत्वांशेऽन्याप्रकारकत्वात् । तथा च भूतले घट इति ज्ञानं भूतले घये [ना]स्तीति ज्ञानस्य प्रतिबन्धकम् । यदि भूतलत्वादिकं धर्मितावच्छेदकीकृत्येति पदं न वाच्यं तदा 'प्रमेयो घट' इत्येतादृशे ज्ञाने विद्यमानेऽपि भूतले घटो नास्तीति प्रतीत्युदयात् यद्यपि तत्रैव भूतले प्रमेयत्वेन रूपेण घटज्ञानं जातं तथापि भूतलत्वरूपेण भूतले घटज्ञानं जायते । अतो धर्मितावच्छेदकीकृत्येति पददानमिदं प्रतिबन्धकभागे सार्थकम् ।
प्रतिबध्यदेशे अभावदेशे यत्-पदं यदि न दीयते तदा घट' इत्येतादृशज्ञाने जायमाने द्रव्येत्वेन रूपेण तस्मिन्नेव भूतले घटाभावप्रतीत्युदयात्-यथा द्रव्ये घटो नास्तीति प्रतीत्युदयात्, तथा च समानप्रकारकत्वेनैव प्रतिबध्यप्रतिबन्धकभाव इति नवीनाः । तथा च भूतले घट इति ज्ञानं भूतले घटो नास्तीति ज्ञानं प्रति प्रतिबन्धकम् । न च- भूतले घट इति ज्ञाने सत्यपि घटभाववदिति ज्ञानापत्तेः समानप्रकारकत्वेनैव प्रतिबध्यप्रतिबन्धकभावस्वीकारात् । अत्र तु समानप्रकारता नास्तीति । भूतले घट इत्यत्र प्रतियोगिदिशि भूतलं भवति प्रकारः, घटो भवति विशेष्यम्; घटाभावो भवति प्रकारः, ततः समानप्रकारता नास्ति, तेनैतादृशं ज्ञानं भवत्येवेति-वाच्यम् । भूतले घट इत्येतादृशज्ञानान्तरं भूतलं घटवदिति ज्ञानं स्वीकर्तव्यमेव । तदनन्तरं भूतलं घटाभाववदिति ज्ञानं न भवत्येव, प्रतिबन्धकस्य सत्त्वात् । अन्यथाऽनुपपत्त्या भूतलं घटवदिति मध्ये ज्ञानं कल्प्यते । तथा च प्रकृते घटत्वेन पटो नास्तीत्यत्र समानप्रकारकत्वेनैव प्रतिबध्यप्रतिबन्धकभावोऽपि वाच्यः । यथाऽन्यत्राभावप्रतीतौ समानप्रकारकत्वेनैव प्रतिबध्यप्रतिबन्धकभावः स्वीक्रियते, तथा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावे (वो)ऽपि वाच्यः ।
इदं नवीनमतं न संभवति । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावे घटत्वेन पटो नास्तीत्यादौ प्रतियोगितावच्छेदकावच्छिनप्रतियोग्यसत्त्वेन ज्ञानासम्भवात् । प्रतियोगितावच्छेदकं घटत्वम् । तदवच्छिन्नपटाप्रसिद्ध्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिता काभावाप्रसिद्धिः । तथा च 'घटत्वेन पटो नास्ति'-इति प्रतीतौ पटवति पटाभावसत्त्वेन विशेषणत्वेनैव रूपघटत्वस्याभावो १. B omits रूपेण. २. B घटज्ञाने जायमाने. ३. B -काभावसिद्धिः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org