SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८५ तर्कतरङ्गिणी ननु गोविशिष्टशृंगं नास्तीति प्रतीत्या सिध्यति, अत्र व्यधिकरणो धर्मो भवति शशीयत्वं-तस्य शृंगो (गे)ऽवर्तमानत्वात्-व्यधिकरणत्वं तदवच्छिन्न प्रतियोगिताकाभावः -प्रतीयते इति चेत्, न । एतत्प्रतीतेरसिद्धः । कथमिति चेत्, शशीयत्वावच्छिन्नंशृंगं बाधितमित्यन्यथा व्याख्येयम् । गवि शशशृङ्ग नास्तीति 'प्रतीतेः शृङ्गत्वावच्छिन्नाभावविषयत्वात् । तथा च गवाधिकरणकं शृङ्ग शशे नास्तीत्यर्थः । ४अयं भाव:-समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव एव शृङ्गनिष्ठप्रतियोगिता-समानाधिकरणो धर्मो भवति शङ्गत्वरूपः । तदवच्छिनप्रतियोगिताकोऽयमभावः । तथा च व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकोऽभावोऽसिद्धः । यतोऽभाव: प्रतियोगिनः सत्त्वविरोधि भवति । यथाऽत्राधिकरणे घटोऽस्ति, तत्र तदभावो नास्ति । तयोः परस्परं विरोधात् । तथा प्रकृते यत्राधिकरणे शृङ्ग तिष्ठति तत्र शृङ्गाभावो वक्तुमशक्यः । न च शृङ्गाधिकरणे शृङ्गत्वावच्छिन्नप्रतियोगिताकोऽभावो विरुद्धः, न तु शशीयत्वावच्छिनप्रतियोगिताकाभावोऽपि तस्य व्यधिकरणधर्मावच्छिनप्रतियोगिकत्वादिति वाच्यम् । यदि घटत्वेन पटो नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावोऽतिरिक्तः सिध्यति तदा पटत्वाच्छिन्ने घटे घटत्वं नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिन(ना)धिकरणताकोऽप्यभावोऽतिरिक्तः सेत्स्यतीति। यथा घटाधिकरणेऽपि भूतले पटत्वेन घटो नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावः स्वीक्रियते भवता, तथा घटत्वाधिकरणेऽपि घटे पटत्वावच्छिन्ने घटे घटत्वं नास्तीति प्रतीत्या व्यधिकरणो धर्मो भवति पटत्वम् । तेन घटनिष्ठाधिकरणता विच्छिद्यते । अतो व्यधिकरणधर्मावच्छिनाधिकरणताकोऽभावोऽतिरिक्तः स्वीकर्तव्य ‘एव, तुल्यन्याययात् ।। न च तत्र पटत्वाभाव एव प्रतीयते इति वाच्यम् । तदा प्रकृतेऽपि तुल्यन्यायेन घटाधिकरणे भूतलादौ पटत्वाभाव एव प्रतीयते । घयभावस्य तत्रे बाधितत्वात्-[इ]ति व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभावः सिद्धयति । नन्वभावं प्रति प्रतियोगितावच्छेदकावच्छिनप्रतियोगिसत्त्वं विरोधि, न तु प्रतियोगिमात्रम् । यथा घटाभावं प्रति घटत्वावच्छेदकावच्छिनघटसत्त्वमभावविरोधि । यत्र भूतले घटत्वावच्छिन्नो घटस्तिष्ठति तत्र भूतले घटत्वावच्छिन्न प्रतियोगितासंसर्गेण घटाभावो नास्ति । घटवत्यपि भूतले पूर्वक्षणवृत्तित्वविशिष्टघो नास्ति । अन्यथा विशिष्टाभावोऽतिरिक्तो न सिध्येत् । तथा घटत्वेन पटो नास्तीत्यत्र घटाभावं प्रति प्रतियोगितावच्छेदकं घटत्वं, तदवच्छिन्नो यो पटः, स विरोधी स्वीक्रियते । यत्र भूतले घटत्वावच्छिन्नो पटस्तिष्ठति तत्र भूतले घटत्वेन पटाभावो मा तिष्ठतु । प्रतियोगितावच्छेदकावच्छिनप्रतियोगिसत्त्वस्याभावविरोधत्वात् । अत एव व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य १. B प्रतीयते. २. B गव्याधिक.. ३. B शशे शृङ्गं नास्ती.. ४. B अयं वा भावः- ५. B तस्याव्यधि.. ६. B -धर्मावच्छिनः । यदि घटत्वेन. ७. B omits अपि. ८. B om its एव. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy