________________
१३०
तर्कतरङ्गिणी विषयस्यापि कारणत्वात् । (VE) शब्दस्यानित्यत्वनिरूपणम् ।
नन्वनेकवर्णविषयकमपि समूहालम्बनात्मकं ज्ञानं सम्भवत्येव, शब्दस्य नित्यत्वादिति चेत्, न । शब्दस्य नित्यत्वे प्रमाणाभावात् । नन्वनुमानमेव प्रमाणम्-तथाहि शब्दो नित्यः, व्योमैकगुणत्वात् परिमाणवत् । यदि वा शब्दो न 'ध्वंसप्रतियोगी, श्रोत्रग्राह्यत्वात्, शब्दत्ववत् । यदि वा शब्दो नित्यः विशेषगुणान्तरासमानाधिकरणत्वे सत्येकपदार्थमात्रवृत्तिगुणत्वात्, कालपरिमाणवत् । यदि वा शब्दो नित्यः, पृथिवीतर नित्यभूतविशेषगुणत्वात्, यथाऽपाकजत्वे सति नित्यैकसमवेतत्वात्, "जलपरमाणुरूपवत् । यद्वाऽव्यापकव्यासज्यवृत्तित्वे सत्यनात्मकगुणत्वात्, कालपरिमाणवत्। विपक्षे बाधकं तु प्रत्यभिज्ञेति तृतीयहेतुव्याख्या । यथा विशेषगुणान्तरेणासमानाधिकरणत्वे सति एकपदार्थमात्र गुणत्वात् कालमात्र वृत्ति ो गुणसत्त्वादित्यर्थः । सुखादौ गुणान्तरेण ज्ञानादिना समानाधिकरणत्वात् शब्दस्य च विशेषगुणान्तरेण समानाधिकरण्यं नास्तीत्यर्थः । "पृथिवीतरेतिपृथिवीतरत् यन्नित्यभूतं तस्य यो विशेषगुणसत्त्वात् पृथिवीतरपदादाने पृथिवीपरमाणुरूपे व्यभिचारस्तत्र नित्यभूतविशेषगुणत्वरूपहेतुरस्ति । नित्यत्वरूपसाध्याभावाद् व्यभिचारः । तद्वारणार्थं पृथिवीतरपदम्। तथा च 'जलपरमाणुरूपादौ पृथिवीतरनित्यभूतविशेषगुणत्वं वर्तते नित्यत्वमपीति व्याप्तिः । अपाकजत्वे इति सत्यन्तं पृथिवीपरमाणुनिष्ठरूपादौ व्यभिचारवारणार्थम् । अव्यासज्येति सत्यन्तं घयकाशनिरूपितद्वित्वे व्यभिचार वारणार्थं तस्यानित्यत्वात् । तत्र नित्यैकसमवेतत्वं वर्तते । परं नित्यत्वरूपं साध्यं नास्ति । अतः सत्यन्तमुक्तद्वित्वस्य व्यासज्यवृत्तित्वम् । तच्च स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वम् । स्वाश्रयो भवति घटः, आकाशं च । तथा च घटे केवलेऽऽकाशे च नास्ति, उभयोरेव सत्त्वात् । पर्याप्ताख्यसम्बन्धेनोभयत्र तिष्ठतीति पूर्वपक्षः । (ii) तत्र शब्दस्यानित्यत्वम् ।
१९अनुमानेति-यथा शब्दोऽनित्यः, सत्त्वे सत्युत्पत्तिमत्त्वात् । [(१)]अस्मादादिबहिरिन्द्रियग्राह्यत्वे सति जातिमत्त्वात् । (२) अस्मदादिप्रत्यक्षगुणत्वात् । (३) अव्याप्यवृत्तित्वात् । (४) अत्र हेतौ न चेश्वरज्ञाने व्यभिचारः । घटादावीश्वरज्ञानाभावात् । ईश्वरात्मन्यपि ज्ञानं व्याप्य न तिष्ठति । तस्य व्याप्यत्वे३ प्रमाणाभावात् । अव्याप्यवृत्तित्वे चानुमानं प्रमाणम् । तथाहि-ईश्वरज्ञानमव्याप्यवृत्ति,
१. B -प्रतियोगिनित्ययोगी. २. B इष्टत्ववत्. ३. B omits नित्य. ४. B जलपरिमाणवत्. ५. B यद्वाऽव्यासज्य. ६. Bomits the reading between गुणत्वात्....कालमात्र. ७. This is nota प्रतीक. but is a word of गुण's own sentence. pl. see line no. 7 of this page. ८. B जलपरिमाणादौ. ९. B omits च. १०. B - नोभयत्वं. ११. A reads a footnote here - संयोगस्यानित्यत्वात् । १२. B omits हेतो. १३. B व्याप्यत्वप्रमाणा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org