________________
११०
तर्कतरङ्गिणी भावाभावस्तु आकाशस्वरूप एव । स च वृत्तिमान् भवतीति आकाशात्यन्ताभावः केवलान्वयी । एवं कालात्यन्ताभावोऽपि केवलान्वयी परमाकाशं केवलान्वयि न भवति । आकाशस्य वृत्तिमान योऽत्यन्ताभावस्तत्प्रतियोगित्वमेव वर्ततेऽऽकाशस्येति नाकाशं केवलान्वयि सर्वत्राकाशाभाव एव तिष्ठति, आकाशं च न कुत्रापि तिष्ठतीति आकाशं केवलव्यतिरेकी धर्म(मि)इति । तथा यदि व्यतिरेकिधर्मत्वेनैव व्यतिरेकित्वमुच्यते तदा पूर्वोक्तानुमानस्यापि व्यतिरेकित्वं स्यादिति ।
अन्यथा व्याचष्टे-विपक्षव्यतिरेकितया व्यतिरेकित्वमुक्तार्थत्वात् । तथा चाकाशात्यन्ताभावस्य विपक्षो भवति-आकाशम् । ततो व्यावृत्तिराकाशात्यन्ताभावस्य नास्ति । तत्राप्याकाशेऽऽकाशात्यन्ताभावस्य वर्तमानत्वात् । तेनान्वयित्वमेवोक्तानुमानस्येति भावः ।।
वेलव्यतिरेकी हेतुर्यथा-'पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्, यत्रेतरभेदाभावः तत(त्र) पृथिवीत्वाभावः, यथा जलं, तथा चायम्-इतरभेदव्याप्यपृथिवीत्ववती । तस्मादितरभेदव्याप्यपृथिवीत्वात् तथा चेतरभेदाभावाभाववतीत्यनुमितिः ।
ननु पृथिवीतरभेद- कुत्र प्रसिद्ध इति चेत्, “घटादावेव तत्प्रसिद्धिः । न च तदाऽन्वयित्वापत्तिरिति वाच्यम् । पक्षातिरिक्ते हेतुसाध्ययोः यदि सामानाधिकरण्यं गृहीतं भवति तदेवान्वयित्वम् । अत्र तु पक्षतावच्छेदकाश्रये घटादौ पृथिवीत्वे साध्यसामानाधिकरण्यग्रहान्नान्वयित्वम्। तथा च घटस्यापि पृथिवीत्वात् पक्षातिरिक्ते साध्यसामानाधिकरण्यग्रहाभावात् नान्वयित्वम् । न च यदि पक्षतावच्छेदकाश्रये साध्यसिद्धिर्जाता, तदा सिद्धसाधनेमेवेति वाच्यम् । अनुमित्युद्देशस्तु पक्षतावच्छेदकावच्छेदेनात्र कृतोऽस्ति । तथा च पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन सा साध्यसिद्धिविरोधिनी । न पक्षतावच्छेदकासामानाधिकरण्येनापि साध्यसिद्धिविरोधिनी । तथा च यद्यपि घटदौ पक्षतावच्छेदकं यद् पृथिवीत्वं तत्सामानाधिकरण्यं नेतरभेदरूपसाध्यसिद्धिर्वर्तते, तथापि सा न विरोधिनी । यत: पक्षतावच्छेदकावच्छेदनानुमिति प्रति पक्षतावच्छेदेन साध्यसिद्धेविरोधित्वात् । प्रकृते तु यद्यपि पृथिवीत्वसामानाधिकरण्येनेतरभेदरूप साध्यसिद्धिर्जातास्ति तथापीतरभेदरूपसाध्यसिद्धिः पृथिवीत्वावच्छेदेन न जाताऽस्तीति । सैव जाता चेत्, तदा विरोधिनी भवति । प्रकृते च सा नास्तीति न सिद्धसाधनम् ।।
तथा चायमर्थः-पक्षतावच्छेदकसामानाधिकरण्येनानुमितिश्च यदुद्देश्या भवति तदा तदनुमिति: पक्षतावच्छेदकावच्छेदेनैव जायते । कदाचित् पक्षतावच्छेदकसामानाधिकरण्येनानुमिति र्जायते, कदाचित्, पक्षतावच्छेदकावच्छेदेनानुमिति र्जायते । प्रकृते च पक्षतावच्छेदकावच्छेदेनैवेति न सिद्धसाधनमिति जातम् । न च घटादौ साध्यस्य प्रसिद्धत्वे[त]दन्वयिता भवत्विति वाच्यम् । घटस्यापि १. A आकाशाभावः. २. B omits च. ३. B omits इति. ४. B घटाभावै(व ए?)व. ५. B तद्विरो..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org