________________
तर्कतरङ्गिणी न च संयोगसम्बन्धेन व्यापकत्वं ग्राह्यम्, तथा च संयोगसम्बन्धेन यद्घटस्याधिकरणं चक्रादिकं तद्रूपाधिकरणे चक्रादिरूपेऽधिकरणे योत्यन्ताभावो गुणत्वादीनां तत्प्रतियोगितानवच्छेदकं दण्डत्वं भवत्वेवेति वाच्यम् । यद्यपि संयोगसम्बन्धेन घटधिकरणे चक्रे दण्डात्यन्ताभावो नास्ति, तथापि घटधिकरणे 'स्थलविशेषे-गृहादौ दण्डात्यन्ताभावस्य विद्यमानत्वात् । कथं दण्डत्वस्यानवच्छेदकत्वम् ? समवायसम्बन्धेन दण्डस्य संयोगसम्बन्धेन घटधिकरणे चक्रेऽभावाच्चेति संयोगसम्बन्धेनैव दण्डस्याप्यभावो ग्राह्यः । तेन पूर्वोक्तदोषो घटधिकरणे गृहादावित्यादिरेव दोषः । तथा च दण्डस्य घटं प्रति व्यापकत्वाभावात् नियतत्वं नास्तीति नित्वा भावात्कारणत्वमपि वक्तुं न शक्यते, इति घट प्रति दण्डस्य कारणत्वं वक्तुमशक्यम् ।
अत्राहुः प्राचीना:-अत्र दण्डघट्यो कार्यकारणभावस्थले कालिक्येव व्याप्तिाह्या । यथा यदा घटः तदा तत्पूर्वमवश्यं दण्ड:-इतिरूपा । तथा च पूर्वोक्तो दोषो नास्ति । पूर्वोक्तदोषस्तु दैशिकी व्याप्तिमादायोक्तः । तदपि न, व्यापकव्यापकभावे दैशिकी व्याप्तिस्त्वश्यं वाच्यैव कार्यकारणरूपा।
ननु-यदा घटस्तत्पूर्वमवश्यं दण्ड:-इत्यादिरूपा कालिकी व्याप्तिरेव यदि गृह्यते तदा दण्डो यदा वने वर्तते तदाऽस्मिन्नधिकरणे घटोत्पत्तिः कुतो न जायते, कारणे सति कार्यस्योत्पत्तिसम्भवात् । तथा च दैशिकसम्बन्धेन दण्डघट्योः सामानाधिकरण्यमवश्यमपेक्ष्यते, यथा यदा यत्र घटस्तदा तत्र दण्ड इत्यवश्यं वक्तव्यमिति चेत्, न । अधिकरणान्तरे घटसत्त्वेऽपि दण्डाभावाद् व्यभिचारः ।।
___ न च यत्रोत्पत्तिकालावच्छिन्नो घटस्तत्रावश्यं दण्ड इति वाच्यम् । उत्पत्तिकालेऽपि यदा चक्रे दण्डेन भ्रमिरुत्पादिता, तदनन्तरक्षण एव दैववशात् दण्डनाशो जातः । तदनन्तरं कपालद्वसंयोगो जातस्तदनन्तरं घटोत्पत्तिः, तेन घटोत्पत्तिसमये उत्पत्तिकालावच्छिन्नो घटश्चक्रे तिष्ठति । तत्र दण्डाभावात् व्यभिचारं एवेति । न च समवायसम्बन्धेन यत्र घटस्तत्र दण्डजन्यसंयोगजन्यक्रियाजन्यकपालद्वय संयोगाश्रयत्वसम्बन्धेन दण्ड इति । दण्डजन्यो यो संयोगश्चक्रेण सममभिघाताख्यो नोदनाख्यो वा तज्जन्या या क्रिया चक्रनिष्ठा, तया जन्यो यो कपालद्वसंयोगः, तदाश्रयत्वं-सम्बन्धे कपालेऽनेन सम्बन्धेन-यथा घटः समवायसम्बन्धेन तिष्ठति तथा दण्डोऽपि कपाले तिष्ठतीत्यर्थः । तथा च न व्यभिचार इति वाच्यम् । गौरवादेतादृशसम्बन्धकल्पने प्रमाणाभावाच्चेति । दण्डघट्योः कार्यकारणभावो दुनिख्य इति ।
अत्र नव्याः पक्षधरशिरोमण्यादयः “समादधिरे-कारणत्वं स्वरूपसम्बन्धविशेषः । अति रिक्तपदर्था वेति । तथा च घटनिष्ठकार्यतानिरूपितकारणत्वं दण्डादीनां स्वरूपसम्बन्धविशेषः । अथवा १. B omits स्थलविशेषे. २. B omits इति. ३. B प्रतिघटं प्रति. ४. B वक्तुमयुक्तम् । ५. B omits कार्यकारणरूपा. ६. A omits नन. ७. B -स्मिन्करणे-.८. B omits समादधिरे.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org