________________
तर्कतरङ्गिणी
शङ्कते-पूर्ववर्तित्वमात्रेति तथा चानन्यथासिद्धत्वे सति पूर्ववतित्वमानं कारणलक्षणं, वर्तते चेदं घटकारणे दण्डादौ, नियतपदं 'व्यर्थमित्यर्थः । रासभस्त्यनन्यथासिद्धिपदेनैव वारितः । अवश्यकल्प्यमानेत्यादिनेत्याशङ्कार्थः ।
समाधत्ते-घटमात्रं प्रतीति-अयमर्थः-यदि कारणलक्षणे नियतपदं न दीयते तदा घटमात्रं प्रति रासभः कारणं स्यात् । कथमिति चेत्, घटमात्र प्रत्यनन्यथासिद्धत्वे सति पूर्ववर्तित्वमानं वर्तते । कथमिति चेत्, रासभस्य घटपूर्ववर्तित्वं कदाचिद्वर्तते, घटसामान्यं प्रत्यनन्यथासिद्धत्वभागोऽपि वर्तते। [त]था हि, अन्यत्रक्लृप्तनियतपूर्ववर्तित एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धम् । अत्रान्यथासिद्धौ रासभस्य नान्तर्भावः । यतोऽन्यं प्रति घटमात्रान्यं प्रति, घटादिकं प्रति नियमेन क्लृप्ता या नियतपूर्ववर्तिनी सामग्री तन्तुतुर्यादिरूपा तयैव घटमात्रस्य निर्वाहश्चेत्सम्भवति, तदा तत्सहभूतो रासभोऽन्यथासिद्धो भवति अन्यथाऽन्यथासिद्धि नं सम्भवति । इदमेव न सम्भवति । न हि पटसामग्या घटो जन्यते । यदि पटसमवायसामग्र्या घटो जन्यते तदा तत्सहभूतो रासभोऽप्यन्यथासिद्धः-इति वक्तुं युज्यते । इदं ब्रह्मणाऽपि वक्तुमशक्यमिति । तथा च रासभो यद्यपि घटविशेषं प्रत्यनन्यथासिद्धिपदेनैव वारितस्तथापि घटसामान्यं प्रति नियतपदव्यतिरेकेणानन्यथासिद्धिपदेन वारयितुमशक्यत्वाद् घटसामान्यं प्रति त्वनन्यथासिद्ध एवेति रासभेऽतिव्याप्तिवारणार्थं नियतपदोपादानमिति दिगर्थः । (III) कारणलक्षणपरीक्षा ।
____ अथ कारणलक्षणे किञ्चिदपि विचार्यते । यथा सिद्धान्ते घटं प्रति दण्ड: 'कारणं भवति। घटनिष्ठकार्यतानिरूपितकारणत्वं दण्डे चेदमनन्यथासिद्धत्वे सति घटनियतपूर्ववर्तित्वं तथा च घटनियतत्वं नाम घटेन सह दण्डस्य व्याप्तिः । घटो भवति व्याप्यः, दण्डो भवति व्यापकः । दण्डनिरूपिता व्याप्ति घंटे, यथा वह्निनिरूपिता व्याप्तिः स्वकार्ये धूमे । व्यापकत्वं तु व्याप्तिनिरूपकत्वमेव, व्याप्यत्वं व्याप्याश्रयत्वम्, तथा च घटनिरूपितव्यापकत्वं दण्डस्य नास्ति । कथम्[इति]चेत्, घटं प्रति नियतपदार्थाभावात् । कारणत्वं [न ?]वाच्यमिति । दण्डस्य घटं प्रति व्यापकत्वं कथं नास्तीति चेत्, दण्डे घटनिरूपितव्यापकत्वे चेदं घटसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यद्दण्डत्वं तद्वत्तं घटनिरूपितव्यापकत्वं दण्डे वाच्यम् । इदं च दण्डे नास्ति । घटाधिकरणे कपाले योऽत्यन्ताभावः पादीनां यथा वर्तते तथा दण्डस्यापि कपालेऽत्यन्ताभावस्तिष्ठति। तत्प्रतियोगितावच्छेदकेनैव दण्डत्वं जातम् । न तु तदवच्छेदकम् ।
१. A व्यर्थमिति भावः । २. B omits the reading between अन्या.............. ..संभवति. ३. A omits the reading between कारणं..
.........तथा च. ४. B तातपच्छे दकेनैव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org