________________
तर्कतरङ्गिणी
४१ दण्डे दण्डत्वं यथा तिष्ठति तथा घटनिष्ठकार्यतानिरूपितकारणताख्यः पदार्थोऽतिरिक्तो दण्डातिरिक्तः तेन नियतपदवाच्यव्याप्तेरप्रवेशान्नोक्तदोष इति भावः ।
ननु तर्हि अनन्यथासिद्धनियतपूर्ववर्तित्वं किमर्थमुक्तमिति चेत्, व्यञ्जकार्थमेव । यत्रेदं व्यज्जकं तिष्ठति, तत्रैव कारणताख्योऽतिरिक्तः पदार्थ इति दिक् । (IV) कार्यलक्षणम् ।
कार्यलक्षणमपि प्रसङ्गादाह-अनन्यथासिद्धेति यथा घटो दण्डकार्यो भवति । अनन्यथासिद्धो भवति दण्डः, तस्मानियमेन पश्चाद्भावी भवति घटः । इदमेव दण्डनिष्ठकारणतानिरूपितकार्यत्वं घटनिष्ठस्वरूपसम्बन्धविशेषोऽतिरिक्तपदार्थ वेति । अनन्यथासिद्धपदं रासभनिष्ठकारणतानिरूपितकार्यताश्रयत्वं घटविशेषस्य वारणाय । नियतपदं तु घटसामान्यरासभनिष्ठकारणतानिरूपितकार्यताश्रयत्वं वारणायेति । (V) कार्यानुकृतान्वयव्यतिरेकित्वं कारणत्वमिति मतनिरासः ।।
'कार्येमिति-कार्येणानुकृतौ-अनुपश्चात् कारणात्पश्चात्, कृतौकार्येणानुकृतौदर्शितौ कारणस्यान्वयव्यतिरेककालपूर्वकालौ, यथा दण्डान्वये सति घटान्वयः, दण्डव्यतिरेके घटव्यतिरेक इति । अत्रान्वयव्यतिरेककालस्य कार्यकालापेक्षया पूर्वकालत्वात् । इदमेव कार्यानुकृतशब्देनोच्यते । तथा च यस्य पदार्थस्य कार्यानुकृतान्वयव्यतिरेकित्वं वर्तते, तस्यैव तत्प्रति कारणमित्यर्थः । यथा घटं प्रति दण्डस्येति । अयमत्र भावार्थ:-दण्डादिस्थले यथा कुलालेनान्वयव्यतिरेकप्रतिपादकशब्दाभिलाषः क्रियते, दण्डे सति घटः, दण्डाभावे घटाभाव इति ज्ञात्वा घटार्थो दण्डे प्रवर्तते नान्यथेति ।।
कदाचिदिति घटसामग्रीविरहकाले रासभव्यतिरेके घटव्यतिरेकसत्त्वाद्रासभस्यापि कारणत्वं स्यादित्युक्तम् । यदन्वय इति कदाचित्सामग्रीविरहकाले रासभान्वये घयन्वयदर्शनात् । अत उक्तं यदव्यतिरेकेति (क इति) उभयोपादानमिति सर्वथा व्याप्त्यभावादित्ति भावः । तथा च कारणीभूताभावव्यापकीभूताभावप्रतियोगिकत्वं कारणत्वमिति पर्यवसन्नम् । कारणीभूतस्य यो भावः तस्य व्यापकीभूतो योऽभावः तत्प्रतियोगिकत्वम्, यथारे यत्र दण्डाभावः दण्डस्य योऽभावः तस्य व्यापकीभूतो योऽभावः यथा यत्र दण्डाभावस्तत्र घटाभाव इति दण्डाभावो व्याप्यो, घटाभावो व्यापकः। "उत्पत्तिकालावच्छेदकसम्बन्धेनेति यस्मिन्काले घट उत्पद्यते तत्कालसम्बन्धेनेत्यर्थः । इदं तु कारणत्वं रासभे नास्ति । रासभाभावस्य घटाभावो व्यापको न भवति । यत्र रासभाभावस्तत्र
-
१. A कार्येति. २. A om its सति. ३. This प्रतीक is not found in the available त. भा. प्र. ४. Pl. add दण्डस्य योऽभावः, तस्य व्यापकीभूतो योऽभावः, यथा
तर्क.-६
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org