________________
तर्कतरङ्गिणी घटाभाव इति नास्तीति कारणत्वं रासभस्य शङ्कते-नन्विति तथा च घटसामग्रीकपालादिविरहकाले रासभव्यतिरेके घटव्यतिरेकः, घटसामग्रीकपालादिसमवधानकाले रासभान्वये सति घटान्वयः । तत उभयमपि तिष्ठतीति रासभेऽतिप्यासिरित्यर्थः ।
प्रयुक्त इति अत्र च प्रयुक्तत्वं जन्यत्वं तच्च घटव्यतिरेके नास्ति । घटसामग्रीविरहकाले रासभव्यतिरेके सति घटव्यतिरेको यद्यपि दृश्यते तथा [पि]स व्यतिरेको रासभव्यतिरिक्त प्रयुक्तो न भवति किन्तु दण्डादिसामग्रीविरहप्रयुक्त एवेति रासभाभावेऽपि' घटसत्त्वादित्यत आह-रासभेति । न च प्रयुक्तत्वं नाम 'तदुक्तसमयसत्त्वम्, यथा दण्डव्यतिरेकप्रयुक्तो घटाभावो दण्डव्यतिरेकोत्तरकाले घटव्यतिरेकसत्त्वमेव, तत्प्रयुक्तत्वं-तच्च रासभेष्वस्तीति वाच्यम् । प्रत्युक्तत्वस्याजन्यत्वमेव विवक्षितम्। एतदेवाह-न चेति
दूषयति-दण्डेति दण्डव्यतिरेकजन्यस्तु घटव्यतिरेको नास्ति । व्यतिरेकशब्देन घटप्रागभावस्यैव विवक्षितत्वात्, तस्याजन्यत्वेन दण्डव्यतिरेकजन्यत्वाभावात्, घटानुत्पन्नत्वेन ध्वंसासम्भवादत्यन्ता-भावस्यापि नित्यत्वात्, दण्डाव्यतिरेकाजन्यत्वसम्भवादन्योन्याभावोऽपि नित्य एवेति । दण्डव्यतिरेकजन्यत्वं घट भावस्य केनापि प्रकारेण न सम्भवतीति न प्रयुक्तत्वं जन्यत्वम् ।
यदन्वय इति [य]था दण्डान्वयेन घटान्वयो जन्यते । उत्पत्तिकाले इदमेव प्रयुक्तत्वं वाच्यमऋऋऋऋ दूषयति-घटान्वयस्यापीति घटान्वयशब्देन घटेन सहाद्यक्षणसम्बन्धः । घटोत्पत्तिः प्रथमक्षणः । सः सम्बन्धस्तु दण्डेन न जन्यते । कालस्वरूपत्वेन दण्डाजन्यत्वात् । स्वरूपद्वयेति घटलक्षणलक्षणं स्वरूपद्वयं, तन्मध्येसम्बन्धमध्ये क्षणोऽपि प्रविष्ट इति दण्डस्य क्षणरूपकालाजनकत्वेन दण्डेऽतिव्याप्तिः । प्रयुक्तत्वस्य विवक्षान्तरं शङ्कते-न चेति यथा घटदिस्थले सकलनियतपूर्ववतिसमवधाने चक्रादिसमवधाने सति दण्डान्वये सति घटान्वय इति विवक्षितम्, तथा चेदं रासभे न गतम् दण्डादिसमवधाने सति यदा दण्डादिसामग्री सर्वाऽपि वर्तते तदा रासभव्यतिरेके घटव्यतिरेको नास्ति । ततो रासभेण गतमत इदमेव प्रयुक्तत्वं वाच्यमित्याशङ्कार्थः ।
इदं प्रयुक्तत्वं दूषयति-दण्डेति यदा घटस्थले सर्वा दण्डादिसामग्री वर्तते तस्मिन्नेव क्षणे दण्डव्यतिरेके५ घटव्यतिरेको वाच्यः । इदमेव न सम्भवति । दण्डस्य विद्यमानत्वेन दण्डव्यतिरेकाभावात् । तथा च दण्डेव्याप्तिरित्यर्थः । प्रत्युक्तपदस्य विवक्षान्तरमाह-न चेति स्वशब्देन यत्र कारणत्वं नेयं तदग्राह्यम्, यथा घटस्थले दण्डः । यथा (दा)दण्डे घटकारणत्वं गृह्यते तदा स्वशब्देन दण्डो ग्राह्यः । तथा च दण्डेतरसकलचक्रादिसामग्री समवधानं सम्बन्धे सतिविद्यमाने १. B om its अपि. २. B -समयत्वम् यथा. ३. B घयभावकेनापि. ४. A सर्वा सामग्री वर्तते. ५. B -तिरेको वाच्यः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org