________________
४३
तर्कतरङ्गिणी सतीति' दण्डव्यतिरेके घटव्यतिरकस्तेनेदमेव दण्डे कारणत्वम् । इदं तु रासभसाधारणं न भवति । रासभान्तरदण्डादिसकलसामग्री-समवधाने सति रासभव्यतिरेके घटव्यतिरेकाभावात् । इदमपि दूषयतिदण्ड एवेति तथा च दण्डेतरो यो दण्डसंयोगादिः सः तत्समवधाने सति दण्डव्यतिरेके घटव्यतिरेको वाच्यः । तत्र दण्डसंयोगस्य सत्त्वेन दण्डव्यतिरेकासम्भवात् । तेन दण्ड एवाव्याप्तित्यर्थः।
प्रयुक्तस्य विवक्षान्तरमाह न चेति । शब्देन यत्र घटदिस्थले दण्डः स ग्राह्यः । स्वस्य व्याप्यौ दण्ड:दण्डसंयोगः, तदितरा चक्रादिसामग्री । तत्समवधाने सति दण्डव्यतिरेके घटव्यतिरेक इति । गच्छति चेदं दण्डे, न गच्छति चेदं रासभे । यतो रासभरासभसंयोगेतरसकलसामग्री समवधाने सति रासभव्यतिरेके घटव्यतिरेकासम्भवात्, रासभरासभसंयोगाभ्यामतिरिक्ता यदा दण्डादिसामग्री वर्तते तदा घटोत्पत्तिर्जायते एवेति न रासभसाधारण्यम् ।
इदमपि दूषयति-तन्तुस्त्येति तथा च तन्तुरूपमथ तन्तुरूपव्याप्यो यो धर्मस्तन्तुरेरूपसमवायादिस्ताभ्यामितरा सामग्री तन्तुहूर्यादिरूपा तत्समवधाने सति तन्तुरूपव्यतिरिक्ते पटव्यतिरेकसम्भवात्तन्तुरूपेऽतिव्याप्तिः "ग्रन्थकाराभिप्रायेण तन्तुरूपस्य तन्तुरेव व्याप्यः । कथमिति चेत्, समवायसम्बन्धेन यत्र तन्तुरूपं तत्र तादात्म्यसम्बन्धेन स्वरूपसम्बन्धेन तन्तुरिति । सामायिकव्याप्त्येति कालिकव्याप्त्या यदा तन्तुरूपं तदा तन्तुरित्येवं रूपया । तथा च तन्तुरूपम्। अथ च तन्तुरूपव्याप्यो यस्तन्तुस्तदतिरिक्ता या तूर्यादिसामग्री, तत्समवधाने सति, तन्तुरूपव्यतिरेके पटव्यतिरेकात् तन्तुरूपेऽतिव्याप्तिरित्यर्थः ।
ननु पूर्वमुक्तं कालिकसम्बन्धेन तन्तुरूपव्याप्यो भवति तन्तुस्तथा च तन्तुतन्तुरूपयोर्व्याप्तिः। अत्र व्यभिचारं शङ्कयित्वा समाधत्ते-आद्यक्षण इति तथा च यदा तन्तुस्तदा तन्तुरूपमिति व्याप्ती, आद्यक्षणावच्छेदेन व्यभिचारः । तन्तुः वर्तते उत्पत्तिकाले । तदा तन्तुरूपं नास्तीति व्याप्यसत्त्वे व्यापकाभावाद् व्यभिचारः । ततः तन्तोर्व्याप्यत्वं न सम्भवतीति शङ्कयित्वा समाधत्ते-स्थूलेति उत्पत्तिक्षणादूर्ध्वं तृतीयक्षणमारभ्य व्याप्तिस्वीकारात् यदा तन्तुस्तदा तन्तुरूपमित्युत्पत्तिक्षणादूर्ध्वं तन्तुस्तिष्ठतीति तृतीयादिक्षणे, तदा तन्तुरूपमपि तिष्ठतीति व्याप्तौ न व्यभिचारः । तथा च स्वस्वव्याप्येतरेत्याधुक्ते तन्तुरूपेऽतिव्याप्तिस्तदवस्थैवेति । तन्तुरूपे ऽतिव्याप्तिवारणार्थमनन्यथासिद्धपदं देयमित्याह-न चान्यथेति तथा चेदं लक्षणं पर्यवसन्नम् । अनन्यथासिद्धत्वे सति स्वस्वव्याप्येतरसकलसमवधाने सति, यदन्वये यदन्वयः, तद्व्यतिरेकं तद्व्यतिरेक इति । तेन तन्तु रूपस्यान्यथासिद्धत्वात्तत्र नातिव्याप्तिः । दूषयति-अन्वय, भागेति तथा च
१. सति दण्ड.. २. B दण्ड: व्याप्यो. ३. B तन्तुसमवायादि.. ४. ग्रन्थकार: गोवर्धनः. ५. B व्याप्यम् . ६. B omits इति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org