________________
४४
तर्कतरङ्गिणी रासभेऽतिव्याप्तिवारणार्थमन्वयभागो दत्तः रासभस्तु अनन्यथासिद्धि(ख)पदेनैव वारितः-इत्यन्वयपदं व्यर्थम् । तथा च यद्यनन्यथासिद्धपदं न दीयते तदा तन्तुरूपेऽति व्याप्तिः, यदि दीयते तदाऽन्वय भागो व्यर्थः । उभयथाऽपि लक्षणासम्भव इति विचार्य सिद्धान्तयति-अत्र ब्रूम इति लक्षणद्वयमाह अनन्यथेति तथा चानन्यथासिद्धत्वे सति यदन्वये यदन्वय इति । यथा घटं प्रति दण्डो भवति कारणम् तत्रास्य योजना-यथा घटं प्रति दण्डो भवत्यनन्यथासिद्धः, अथ च नियमेन दण्डे सति घोत्पत्तिर्भवतीति दण्ड: कारणम् । घटविशेष प्रति रासभस्य कारणतां वारयि तुमनन्यथासिद्धपदम्। अन्यथा घटविशेष प्रति नियतपूर्ववर्तित्वेन कारणत्वं स्यात् । नियतपदानुपादाने घटसामान्यं प्रति रासभस्यानन्यथा सिद्धत्वेन कारणत्वं स्यात् । अनन्यथासिद्धत्वं कथमिति चेत्, रासभस्तु (रासभस्य तु) घटसामान्यं प्रत्यन्यत्रक्लृप्तियत पूर्ववतित्व एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धमिति । इयमनन्यथासिद्धिहि रासभस्य वक्तव्या । इयमनन्यथा सिद्धिर्न सम्भवति रासभे । घट'सामान्यदन्यत्र पटादौ नियमेन क्लृप्ता या पूर्ववर्तिनी सामग्री तूर्यादिरूपा, तत एव कार्यसम्भवे तत्सहभूतो अत्र तूर्यादिसहभूतो रासभोऽनन्यथासिद्धो भवतीति पटसामग्र्या घटयजननात् । पटादिसामग्र्या घटश्चेज्जन्येत तदा रासभः तत्सामग्रीसममवहित': सन् अन्यथासिद्धः स्यात् । तथा च रासभो घटसामान्यं प्रति नान्यथासिद्ध इति । यद्यपि घटविशेष प्रति रासभोऽन्यथासिद्धो भवति, अन्यत्र एतद्घटादन्यत्र पयन्तरे क्लृप्ता या पूर्ववर्तिनी सामग्री दण्डादिरूपा तयैवेतत्घटोत्पत्तिसम्भवे, तत्सहभूतो दण्डादिसहभूतो, रासभोऽन्यथासिद्ध इति । इयं च घटविशेषे एव भवतीति घटसामान्यं प्रति रासभस्य कारणतावारणाय नियतपदोपादानम् । तथा च रासभस्य नियमेन पूर्ववर्तित्वाभावाद् घटसामान्यं प्रति न कारणत्वमिति सिद्धमिति मनसि कृत्वाऽऽह-अत्रेति ।
द्वितीयमाह-स्वेतरेति स्वपदेन कारणताभिमतो यो दण्डादिस्तस्मादितरः । अथ च स्वव्याप्यो यो दण्डादिव्याप्यो दण्डसंयोगः, तदितरा एताभ्यामितरा चक्रादिसामग्री, तत्समवधानेऽनन्यथासिद्धत्वे च सति दण्डव्यतिरेके घटव्यतिरेक इति दण्डस्य घटं प्रति कारणता । स्वेतरेति पदं दण्डेऽव्याप्तिवारणार्थम् । यतः स्वव्यापेतरस्वव्याप्यशब्देन दण्डसंयोगः, तदितरदण्डादिसामग्रीसमवधाने सति दण्डव्यतिरेकासम्भवादव्याप्तिरत उक्तम्-स्वव्याप्येति अनन्यथासिद्धपदं तु घटविशेष प्रति रासभेऽति व्याप्तिवारणार्थम् । तत्र तस्यान्यथासिद्धत्वादित्यर्थः । नियतपदं तु घटसामान्यं प्रति रासभेऽतिव्याप्तिवारणार्थमिति मनसि कृत्वाऽऽह अत्रापीति व्यतिरेकेति यद्व्यतिरेके यद्व्यतिरेक इति लक्षणेऽव्याप्तिमाहेत्यर्थः ।
नित्यत्वादिति ध्वंसाप्रतियोगित्वात्कालिको व्यतिरेको नास्ति । यदा कालाभावस्तदा घटाभाव १. A -पूर्ववर्तिनि. २. A अन्यत्र घटसामान्यत्. ३. A omits the reading between. अत्र....सहभूतो ४. B -हितः । सोऽन्यथा.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org