________________
तर्कतरङ्गिणी
४५ इति वक्तुमशक्यत्वादित्यर्थः । कालादीनां दैशिको व्यतिरेको व्यापकत्वात् न सम्भवति । व्यापकत्वं नाम सकलमूर्तिसंयोगित्वम् । तथा च यत्र कालाभावस्तत्र घटाभाव इत्यपि वक्तुमशक्य इति मूलग्रन्थार्थः ।
नन्वाकाशादीनामपि दैशिकव्यतिरेकः सम्भवत्येव, विभूनामवृत्तिपदार्थत्वादिति वक्तुं शक्यते इति चेत्, न । व्यतिरेकशब्देनात्र प्रागभावो ग्राह्यः । यथा च यदा कालप्रागभावः, तदा घटप्रागभाव इति न सम्भवतीति मनसि कृत्वा ग्रन्थकारेणा व्याप्त्या दूषितमित्यताशयात् । (VI) समवायिकारणलक्षणम् ।
समवायिकारणलक्षणमाह-स्वसमवेतेति रेस्वप्रत्येकमेव लक्षणं ज्ञातव्यम् । स्वस्मिन्समवेतो यः कार्यतारूपस्तत्प्रत्यनन्यथासिद्धत्वे सति, नियतपूर्ववर्तित्वं समवायिकारणमित्यर्थः । यथा घटं प्रति कपालम् । स्वसमवेतपदादाने दण्डादीनां घयदीन्प्रति समवायिकारणत्वं स्यादत आह स्वसमवेतेति । अनन्यथासिद्धपदानुपादाने घटरूपं प्रति "घयन्य भिन्नत्वेन रूपेण घटस्य कारणत्वं स्यात् । न च 'तथैवास्तु' इति वाच्यम् । तेन रूपेण घटस्य घटरूपं प्रत्यन्यथासिद्धेः । अवश्यक्लृप्तेत्यादिना घटोऽनन्यथासिद्धः ।
येन रूपेण घटः क्लृप्तः तेनैव कारणत्वम् यतोऽवश्यं क्लृप्तंभवति घटत्वम्, तेनैव रूपेण कारणत्वं चेत्सम्भवति, तदा घटभिन्नभिन्नत्वेन रूपेण घटरूपं प्रति घटोऽन्यथासिद्धः इति ।
ननु घटो घट भिन्नत्वेन रूपेणान्यथासिद्धो भवति किन्तु तेन रूपेण गौरवात्कारणत्वं नास्तीति चेत् , न । गौरवेण ह्यन्यथासिद्धिरेव संपादनीया अन्यथा तत्र लक्षणसत्त्वेन तेन रूपेणापि तत्समवायिकारणं स्यादिति मनसि कृत्वाऽऽह घटस्येत्यादिना(अ) प्रासङ्गिकः समवायविचारः ।
समवायसम्बन्धलक्षणमाह-ययोर्मध्येति । तेनायुतसिद्धयोः सम्बन्धः समवाय इति समवायलक्षणम् । मूलेऽविनश्यदिति अविनश्यदित्यस्यायमर्थविनश्यत्ताविरहेत्यर्थः । अत्र शङ्कतेयत्किञ्चिदिति तथा च ययोः द्वयोः मध्ये विनश्यताविरहाले एकोऽपराश्रित एवावतिष्ठते, तयोः
१. B reads after -दिति-यत्र कालाभावस्तत्रेत्यपि-but it seems redundant, as its meaning is out of context; perhaps a scribal error. २. B ग्रन्थकारेण व्याप्त्या . ३. B omits स्व. ४. B घटानभिन्न. ५. B omits the reading between येन रूपेण............
reading between यन रूपण................................कारणत्वम. ६. B समवायसम्बन्धेन लक्षणमाह.
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org