________________
४६
तर्कतरङ्गिणी सम्बन्धः समवायः । यथा घटघटत्वयोः, घटघटरूपयोरित्यादि । अत्र विनश्यताविरहशब्देन यत्किञ्चिद्विनश्यत्ताविरहमादाय घटघटरूपयोरपि समवायसम्बन्धो न स्यात्तदानीं पटादीनां विनाशत्त्वात्तादृशो विनाशकालो नास्तीत्येतदेवाह-नाद्य इति दूषणार्थं विशदयति-पटेति यद्यपि घटरूपस्य पटरूपविनश्यताविरहरूपत्वं वर्तते तथापि समवायिकारणविनाशघटिता भवति कार्यविनश्यत्ता । समवायिकारणनाशत्वेन भावकार्यनाशत्वेन च कार्यकारणभावादतो विनश्यता समवायिकारणनाशघटिता भवति, तदानीं घटरूपस्यापराश्रितत्वं न स्यात् । तथा च यत्किञ्चिन्नाशविरहोऽप्रयोजको घटनाशेऽपि घटरूपे पटनाशविरहस्तिष्ठत्येव । तथा च घटनाशसमयेऽपि घटरूपस्य विनश्यत्ताविरहवत्वेनापराश्रितत्वं स्यादिति प्रकृते च तदभावादित्यर्थः ।
प्रथमकल्पो न सम्भवतीत्यतो द्वितीयकल्पमाशक्य दूषयति-न द्वितीय इति नित्यसम्बन्धिनोरिति परमाणुपरमाणुत्वयोरित्यत्र प्रकृतयोः 'परमाणुपरमाणुत्वरूपयो: सम्बन्धिनोविनश्यत्ताविरहो वाच्यः । स च प्रतियोगिन्याः विनश्यत्ताया अप्रसिद्धा तद्विरहोऽप्रसिद्ध इत्यर्थः । तथा च परमाणुपरमाणुत्वयोः समवायो न स्यात् । एवमनन्यत्र जलपरिमाणतद्रूपयोरपीति नेयम् । न तृतीयेति यदा घटघटत्वयोः सम्बन्धो भवति, तदानीं सकलविनश्यत्ताविरहो नास्ति । तदानीमपि कस्यचिद्विनाशस्य सत्त्वाद् घटघटत्वयोरपि समवाय सम्बन्धो न स्यात् ।
मध्ये शङ्कते-न चेति तथा च यदा द्वयणुकमारभ्य सर्गस्योत्पत्तिर्जायते, तस्मिन्नक्षणे कस्यापि विनाशविरहात् सकलविनश्यत्ताविरहस्तिष्ठत्येव । तेन घटघटत्वादीनां समवायः सिध्यतीत्याशङ्कार्थः ।
दूषयति-इदानीं तेनेति यद्यपि सर्गाद्यक्षणे गुणगुण्यादीनां सकलविनश्यत्ताविरहेण समवायः सिध्यति तथापीदानीं सकलविनश्यत्ताविरहासम्भवेन घटघटत्वादीनां समवायसम्बन्धत्वं न स्यात् ।
समाधत्ते-यौ द्वौ इति निक(ष्कर्षमाह यौ द्वौ सम्बन्धाभावकाले भिन्नौ न तिष्ठतस्तयोर्य सम्बन्ध स समवाय इत्यर्थः । यथा घटघटत्वयोः सम्बन्धःभावकाले घटध्वंसकाले घटघटत्वे न तिष्ठतः ।
ननु घटनाशे घटत्वं कुत्र तिष्ठतीति चेत्, 'न । कालस्य सर्वाधारत्वेन तिष्ठत्येव । स्वरूपसम्बन्धेनेदानीं घटत्वमिति प्रतीयते इति दिक् ।
. अग्रे इति समवायग्रन्थे। क्षणमात्रमिति घटघटरूपयोः समवायसम्बन्धो भवत्यविनाशकाले। विनाशकाले तु घटरूपं क्षणमात्रमनाश्रितमेवावतिष्ठति । ननु तत्र किं प्रमाणमिति चेत्, कार्यकारणभाव एव । तथा ह्याश्रयनाशत्वेन गुणनाशकत्वेन च कार्यकारणभावः । यथाऽऽश्रयनाशो भवति कारणम्।
१. B om its the reading between परमाणु...................तथा च. २. B न चेत्तथा च. ३. B omits न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org