________________
तर्कतरङ्गिणी
४७ गुणनाशो भवति कार्यमिति । तथा चाश्रयनाशानन्तरं गुणनाशो भवति । 'तत्त्वाश्रयनाशकाले तस्याकारणत्वप्रसङ्गात् । तत आश्रयनाशकाले गुणः क्षणमात्रमनाश्रित एव तिष्ठतीति प्रमाणम् । अधिकमिति सान्निध्यपदं व्यर्थम् । कारणपदमपि सामग्रीमध्ये तयोः प्रविष्टत्वादित्यर्थः । (ब) गुणगुणिनोः समानकालिनत्वविचारः ।
असङ्गत्तमिति यत्सामान्यकालोत्पत्तिकत्वेना भेदापादानं तदसङ्गतमित्याह । एतदेवाहघटख्यादीनामिति एकस्मिन्क्षणे घटरूपं घटरसश्चोत्पद्य(द्ये) ते । अनयोः समानकालत्वेऽप्यभेदो नास्ति । सामग्र्यभेदस्तु समानकालत्वेनैव । प्रकृतेऽपीति तथा च घटघटरूपयो: समानकालोत्पत्तिकत्वेनाभेद उट्टङ्कितः । तत्रानेन प्रतिबन्दी दत्तः । तथाहि यदि समनकालोत्पत्तिकत्वेन घटघटरूपयोः भेदो नाङ्गीक्रियते, तदा घटरूपरसादीनामपि समानकालोत्पत्तिकत्वेन भेदो न स्यादिति।
तत्र पूर्वपक्षिणा समाधीयते-घटरूपरसादीनामपि यद्यपि समानकालोत्पत्तिकत्वं वर्तते, तथाप्यसमवायिकारणभेदेन रूपरसादीनां परस्परं भेदो भविष्यतीत्यपि घटघटरूपयोरित्यत्रापि भेदः स्वीकार्य एव । यथा भवन्मतेऽसमवायिकारणभेदेन रूपरसादीनां परस्परः भेदः तथा घटपट्योरप्यसमवायिकारणभेदेन भेदः स्यादित्याह-तुल्यत्वादिति
इदं दूषयति-फक्किकार्थेति समानकालोत्पत्तिकत्वेन गुणगुणिनोर्भेदो न स्यादित्यस्यां फक्किकाया अयमर्थः । घट घटरूपयोः समानकालोत्पत्तौ घटस्य यत्समवायिकारणं कपालं तदेव घटरूपस्यापि स्वीकर्तव्यम् । तथा च समवायिकारणाभेदेन घटघटरूपयोरभेदः । न चासमवायिकारणभेदेन भेद इति [कपाल]रूपं प्रति कपालरूपमसमवायिकारणम्, घटरूपं प्रति घटरूपमसमवायिकारणम्, तथा च घटघटरूपयोरसमवायिकारणभेदेन भेद इति वाच्यम् । तथा सति घटं प्रत्यपि घटस्य कारणत्वं समायाति । यथा भवन्मते घटरूपस्यासमवायिकारणं घटरूपम्, [न]कपालरूपम्, तथा घटं प्रत्यपि घटः समवायिकारणं भवतीति ।।
पूर्वन्यायेन तदुपरि समादधति-घटो हीति अयं पूर्वप्रघट्टकार्थः-घटरूपं प्रति घये भवति न्यायमतेन समवायिकारणम् । तत्र बौद्धः शङ्कते ननु यदा घट उत्पद्यते तस्मिन्नेव क्षणे घटरूपमुत्पद्यते, तथैवानुभवात् । क्रमोत्पत्तौ प्रमाणाभावात् । तदुपरि नैयायिकेनोक्तम्समानकालोत्पत्तौ गुणगुणिनोः समानसामग्रीत्वात् समानसमवायिकारणत्वात्भेदो न स्यात्, एकस्मिन्नेव क्षणे समवायिकारणैकत्वेन कार्य [कारण]यो भैदानङ्गीकारात् । यथा एकस्मिन्नेव क्षणे यस्मिन्कपाले घट उत्पद्यते तदा तत्र घटान्तरं 'नोत्पद्यते इति । तद्वद्यस्मिन् क्षणे कपाले रूपमुत्पद्यते तस्मिमन्नेव क्षणे घटो नोत्पद्यते । यदि घटघटरूपयोरेकदैवोत्पत्तिः स्वीक्रियते तदा उभयोरर्थात् 'कपालमेव १. B नन्वाश्र.. २. Though it is नोपपद्यते in both A and B नोत्पद्यते is used to suit the context. ३. B समवायिकपालमेव वृत्तम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org