________________
४८
तर्कतरङ्गिणी समवायिकारणं वृत्तम् । तथा च घटघटरूपयोः समवायिकारणैक्येन भेदो न स्यादिति मूलफक्किकार्थः । तदुपरि टीकाकारेण समाधानं कृतम् । यद्यपि समवायिकारणभेदो नास्ति 'तथाप्यसमवाय(यि)कारण भेदेन भेद:। घटतद्रूपयोरिति भेद एव । तथा च ग्रन्थकारेण तयार्भेद उच्यते, तत्र टीकाकृतोच्यते कपालरूप घटरूपयोर्भेदो न स्यादित्यर्थः ।
कपालरूपस्य समवायिकारणं कपालम्, घटरूपस्यापि समवायिकारणं कपालम् । तथा च समवायिकारैणकत्वेनानयोर्भेदो न स्यादित्यर्थः । अत्र त्वसमवायिकारणभेदो नास्ति । कपालरूपं प्रत्यसमवायिकारणं भवति कपालिकारूपम् । तदेव घटरूपं प्रत्यपीति तेन भेदो वक्तुं न शक्यते । एककालावच्छेदेन यत्र कार्यद्वयस्योत्पत्तिर्जायते तयोर्भेदस्तु समवायिकारणभेदकृत एव । यथा एकक्षणे “घटवुत्पन्नौ तयोर्भेदः समवायिकारणभेदात् । प्रकृते घटरूपकपालरूपयोः समवायिकारणस्य कपालस्यैकत्वेन भेदो न स्यादिति नैयायिकेन दूषितम् । ततः क्रमेणैव घटघटरूपयोरुत्पत्तिरुचितेति। भ्रान्तः शङ्कते-नन्विति अन्यथापीति यथा कपालरूपस्य समवायिकारणत्वं [कपाले], "घटे घटरूपस्यैव समवायिकारणत्वं, तथा च समवायिकारणभेदेन कपालरूपघटरूपयोर्भेदः सिध्यतीत्येकस्मिन्नेव क्षणे गुणगुणिनोरुत्पत्तिस्वीकारेऽपि न क्षि(क्ष)तिरित्यर्थः ।।
इदं दूषयति-तथा च यत्कपालरूपं प्रति कपालरूपस्य समवायिकारणत्वमुक्तमेवं घटरूपं प्रति घटरूपस्यापीति प्रतिबन्दिविधया दूषयति-एवमिति यदि घटरूपं प्रति घटरूपं समवायिकारणं स्यात्तदा घटं प्रत्यपि घटः समवायिकारणं स्यात् । तुल्यन्यायात् । यदि तत्र वक्तव्यभेदेन समवायिकारणत्वं न सम्भवति घटस्यैकत्वात्, तदा कपालरूपादिस्थलेऽप्यभेदात् समवायिकारणत्वं न स्यात् । तथा च घटरूपकपालरूपयोः समवायिकारणैकत्वेन भेदः । तयो |दो न स्यादिति दृढं दूषणं जातम् । अन्यैरिति केशवमिश्रादन्यैरित्यर्थः। (क) चार्वाकमतम्, उदयनकृततत्परिहारश्च । स्वानुभवपूर्णं पद्यं यथा
हेतुभूतनिषेधो न स्वानुपारव्याख्यो]विधि न च । स्वभाववर्त्मना नैवमवधेनियमत्वत्तः ॥ [न्या.कु.सु. १.६]
इति कारिका चार्वाकप्रयुक्ता । कुसुमाञ्जलौऽस्या अर्थो यथा-इदं विश्वमकस्माद् भवति। कोऽर्थः ? एतस्य हेतुः कोऽपि नास्ति । कस्मादपि न भवतीति भूतनिषेधः । अकस्माद् भवति । कोऽर्थः ? स्वस्माद् भवति । अकस्माद् भवतीत्यलीकमित्यर्थः । अकस्मादिति स्वभावेनेत्युक्तवन्तं चार्वाकं प्रति आचार्याः वदन्ति । इदं सर्वं न । कुतः ? अवधेनियमत्वत्तः । यथा दण्डावधेरेव
१. B तथाप्ययमसम.. २. B घट:. ३. B -रूपघटयोर्भेदो. ४. B omits -इत्यर्थः. ५. A घटपटाव. ६. B अनयो.. ७. A घटरूपे. ८. B भूतनिषेधकः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org