________________
तर्कतरङ्गिणी नियमतौ(तो) घट इति ।
'चार्वाकेण जगतोऽकार्यत्वे उक्ते सति हेतुत्रयं प्रोक्तम्-हेतुभूतनिषेधः (१) स्वानुपाख्यविधिः (२), स्वभाववर्मना (३) इति वचनत्रयं चार्वाकेनोक्तम् । 'न'इत्याधुदयनाचार्यैरुदितम् । त्रयाणां पदानां चार्वाकोदितानां निषेधमुक्त्वाऽवधे निर्यमत्व[त्तः] इत्यनेनोत्तरं दत्तमुदयनाचार्यैः । [ड] बौद्धमतचर्चा ।
प्रथमेति बौद्धेन शङ्का कृता ।-यदि प्रथमे क्षणे द्रव्यं निर्गुणमेवोत्पद्यते तदा प्रथमे क्षणे द्रव्यमचाक्षुषं स्यात् । चाक्षुष लौकिकद्रव्यः प्रत्यक्षं प्रत्युद्भूतरूपस्यापि कारणत्वस्वीकारात् । तथा च प्रथमे क्षणे द्रव्यविषयकचाक्षुषप्रत्यक्षं न जायते । द्रव्यप्रत्यक्षं प्रति द्रव्यमपि विषयत्वेन कारणं भवति । तथा च प्रथमे क्षणे उद्भूतरूपाभावा []द्रव्यं चक्षुर्ग्राह्यं न स्यादिति शङ्का न भवति । कुत इति चेत्, येन सगुणद्रव्यमुत्पद्यते इति मन्यते तन्मतेऽपि प्रथमे द्वितीयक्षणद्रव्यविषयकं चाक्षुषप्रत्यक्षं न जायते । द्रव्यप्रत्यक्षं प्रति द्रव्यमपि विषयत्वेन कारणं भवति । तथा च प्रथमे क्षणे द्रव्यसस्ययोत्पत्तिक्षणत्वाद् द्रव्याभावेन कथं तत्प्रत्यक्षम् ? द्वितीयक्षणेऽपि प्रत्यक्षं न भवति सन्निकर्षाभावात् । प्रथमे क्षणे द्रव्यमुत्पद्यते । द्वितीयक्षणे द्रव्येण समं चक्षुरिन्द्रियसन्निकर्षो जायते । तृतीयक्षणे द्रव्यप्रत्यक्षं जायते ।
ननु द्वितीयक्षणे एकद्रव्यप्रत्यक्षं कुतो न जायते इति चेत्, न । सन्निकर्षस्य तदेवोत्पादेन पूर्ववर्तित्वाभावात् । कार्यसमकालिनं तु कारणं न भवति । एतदेवाह-कारणसमेति तथा च यस्मिन्नेव क्षणे कारणं उत्प[द्य]ते, तस्मिन्नेव क्षणे कार्यं न उत्पद्यते इति भावः । परिहार इति यथा बौद्धमते प्रथमे क्षणे घटश्चक्षुषा न गृह्यते, घटस्य पूर्ववर्तित्वाभावात्-न दूषणं-तथाऽस्माकं मतेऽपि द्वितीय क्षणे चुक्षुषाग्रहणेऽपि न दोषः । सन्निकर्षस्यैव पूर्ववर्तित्वाभावादित्यर्थः ।।
यदीति-यदि प्रथमे क्षणे द्रव्यं निर्गुणमेवोत्पद्यते, तदपि प्रथमे क्षणेऽचाक्षुषं द्रव्यं स्यादिति तर्कार्थः तदा सम्भवति यदि एतत्कार्यस्वीकारमतेऽपि प्रथमद्वितीयक्षणे द्रव्यं चक्षुषा गृह्यते । सगुणोत्पत्तिपक्षेऽपि प्रथमद्वितीय क्षणे द्रव्यप्रत्यक्षं न जायते । प्रथमे क्षणे द्रव्यरूपाभावात् । द्वितीयक्षणे सन्निकर्षाभावात् । तथा च तृतीयक्षणे एव द्रव्यविषयकमलौकिकचाक्षुषप्रत्यक्षं जायते । इत्युभयवादिसिद्धये न हि सगुणोत्पत्तिरङ्गीक्रियते । तन्मते प्रथमे क्षणे द्रव्याभावात्, द्वितीय क्षणे सन्निकर्षाभावात् । तृतीय क्षणे एव चाक्षुषप्रत्यक्षम् । तथा न्यायमतेऽपि तृतीयक्षण एव तदिति । तथा च प्रथमे क्षणे द्रव्यस्याचाक्षुषत्वमुभयवादि सिद्धमिति । ततो बौद्धकृता शङ्काऽनुपपन्नेत्यर्थः ।
अतद्गुणेति तथा 'बहुधनमानय'-इत्यत्रानयनेन समं पुरुषस्यैवान्वयो न तु द्रव्यस्यापि । तद्वत् १. B omits the reading between चार्वाकेण....रुदितम्. २. B omits ततो. तर्क.-७
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org