________________
५०
तर्कतरङ्गिणी प्रकृते द्वितीयक्षणे' ऽऽदिर्यस्येत्यतद्गुणसंविज्ञानेन तृतीयक्षण एवं बोध्यते-इत्यर्थः । प्रथमेति यत्र गुणप्रागभावो ध्वंसो वा प्रतियोगी वा-इति त्रयाणां मध्ये यत्रैकमपि तिष्ठति, तत्र गुणात्यन्ताभावो न तिष्ठतीति प्राचीनाः ।
नव्यमते शिरोमणिमते-गुणध्वंसप्रागभावकालेऽपि गुणात्यन्ताभावोऽप्यस्ति गुणात्यन्ताभावं प्रति प्रतियोगिन एव विरोधात् । न तु ध्वंसप्रागभावयोः प्रमाणाभावात् साधकं च तिष्ठति । उत्पत्तिकालावच्छेदेन घटे रूपं नास्तीति प्रत्या (प्रतीत्या ?) रूपसामान्याभाव एव विषयीक्रियते । तत्र प्रत्यक्षासम्भवेन प्रमाणमनुमानम् । तथाहि उत्पत्तिकालावच्छिन्नो घटो रूपसामान्याभावान्यतरवान् प्रमेयत्वात्, पटवत् । पटे प्रमेयत्वं तिष्ठति । तत्र रूपरूपसामान्याभावान्यतरमध्ये रूपं तिष्ठति । तथा च प्रकृते उत्पत्तिकालावच्छिन्ने घटे रूपासम्भवेन रूपा(प)रूपसामान्यभावान्यतरमध्ये रूपसामान्याभावमादाय सिध्यति । सामान्याभावस्त्वत्यन्ताभाव एव । न च तत्र प्रागभावो वा ध्वंसो वा विषयीभवतीति वाच्यम् । तयोस्तथानुल्लेखात् । तत्र नस्थलेऽन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिसिद्धत्वात् । तथा भूतले घटो नास्तीत्यत्रात्यन्ताभावोऽभावे प्रतीयते । यथा घटत्वावच्छिन्नप्रतियोगि[ता] का भावः प्रतीयते घटत्वस्यान्वयितावच्छेदकत्वात्तथोत्पत्तिकालावच्छिने घटे रूपं नास्तीति प्रतीत्या रूपत्वाच्छिन्न प्रतियोगिताकोऽभावः प्रतीयते । रूपत्वस्यैव तत्रान्वयितावच्छेदकत्वात् । न चेयं ध्वंस प्रागभावविषयिण्येवेयं प्रतीतिरिति वाच्यम् । यत्र घटे रक्तं रूपं तिष्ठति, अथ रूपान्तरस्य प्रागभावस्तिष्ठति तत्रापि रक्तं रूपं तिष्ठति । रूपं नास्तीति प्रतीत्यापत्तिः भवन्मते विषयस्य प्रागभावस्य सत्त्वात् । अस्मन्मते तु प्रतियोगिरक्तरूपसत्त्वे रक्तरूपात्यन्ताभावो नास्तीती प्रतीति न भवतीति विषयासत्त्वात् । न च रूपप्रागभावज्ञानं प्रत्यपि रूपज्ञानं प्रतिबन्धकमिति वाच्यम् । रूपत्वावच्छिन्नरूपप्रागभावस्य नाङ्गीकारात् । तथा च रक्तं रूपं यद्घटे तिष्ठति, तद्रक्तरूपान्तरप्रागभावस्य प्रतियोग्येव न सम्भवति । उत्पत्स्यमानरूपस्यैव तत्प्रतियोगिकत्वात् । तथा च रक्तरूपवति घटे भवन्मते रक्तं रूपं नास्तीति प्रतीतिः स्यादिति बाधकबलेनोत्पत्तिकालावच्छिन्ने घटे रूपं नास्तीति प्रतीतिर्न प्रागभावविषयिणी न वा ध्वंसविषयिणी किन्तु तदत्यन्ताभावविषयिणीति दिक्।
तथा च नवीनमते द्रव्यलक्षणं गुणप्रागभावाधधिकरणत्वमेवेति गुणगुणप्रागभावध्वंसान्यतरत्वमिति। (VII) असमवायिकारणविचारः ।
असमवायिकारणे समवायिकारणप्रत्यासत्तिं विचारयति । न तावदिति तथा च यस्य यत्समवायिकारणं तत्र तत्समवायसम्बन्धेन तिष्ठति । अथ च तत्प्रत्यनन्यथासिद्धत्वे सति नियतपूर्ववति
१. B -क्षणादिर्यस्ये.. २. A प्राञ्चा:. ३. B om its प्रमेयत्वं. ४. B omits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org