________________
तर्कतरङ्गिणी भवति, तदसमवायिकारणपदेनोच्यते इति चेत्, तदा पटरूपे जननीये 'तन्तुरूपे यदसमवायिकारणत्वम्, तदभावात्पटरूपस्य समवायिकारणं भवति पटः, तत्र तन्तुरूपस्यासमवेतत्वादव्याप्तिरित्यर्थः । अव्याप्तिवारणार्थं विवक्षान्तरमाह नापीति पटरूपस्य समवायिकारणं भवति पटः । तत्समवायिकारणं भवति तन्तुः । तत्र तन्तुरूपस्यासमवेतत्वात् न दोष इत्यर्थः । तदा पटसमवायिकारणे तन्तुसंयोगे ज्ञानासमवायिकारणेऽऽत्ममनः-संयोगादौ व्याप्तिः । तस्य समवायिकारणसमवायिकारणासमवेत्त्वात् । एतदेव विवृणोति-पटासमवायिकारणेति पटस्य 'समवायिकारणं भवति तन्तुः । तस्य समवायिकारणं भवत्यंशुःतदवयवः । तत्र तन्तुसंयोगस्यासमवेतत्त्वात् इत्यर्थः नापीति । क्वचित्तत्समवायिकारणं प्रत्यासन्नं क्वचित्समवायिकारणमवेतत्वमिति चेत्, तदाऽननुगमो दोष:व्यभिचार इत्यर्थः । समवायिकारणसमवेतत्वव्यतिरेकेणापि समवायिकारणप्रत्यासन्नत्वेनाप्यसमवायिकारण-निर्वाहादिति व्यभिचारः।
अनुगमार्थं लक्षणमाह-कार्येति तथा च कारणैकार्थप्रत्यासत्तिकार्यैकार्थ प्रत्यासत्त्योर्लक्षणानुगमार्थमियं विवक्षा । कार्यकारणभावरूपो यःसम्बन्धः तस्य निरूपको सम्बन्धिनौ, यतः सम्बन्धस्योभयनिरूप्यत्वम् । यथा 'तंतुपटयोः संयोगः, तन्निरूपकावुभाविति, तथा कार्यकारणभाव रूपो यः सम्बन्धः तस्यापि निरूपको द्वौ वक्तव्यौ । यथा तन्तुपटयोः सम्बन्धो भवति कार्यकारणभावरूपस्तन्निरूपको तन्तुपटौ । ताभ्यां मध्ये एकतरेण सह यदेकार्थसम वायसम्बन्धेन कारणम् तदसमवायिकारणम्, यथा पटं प्रति तन्तुसंयोगः । तन्तुघटौ कार्यकारणरूपौ । तन्तुपटयोः सम्बन्धो भवति कार्यकारणतारूपः । तस्य सम्बन्धिनौ तन्तुपटौ । तयोर्मध्ये पटेन तन्तुसंयोगस्य कार्येण सहैकार्थ समवायप्रत्यासत्या तन्तुलक्षणेऽर्थे उभयोः तन्तुसंयोगपटयोः समवेतत्वेन तन्तुसंयोगस्य पटं प्रत्यसमवायिकारणमियं कार्येकार्थप्रत्यासत्तिः ।
एवं कारणैकार्थप्रत्यासतावपि लक्षणं योजनीयम् । यथा “पटरूपं प्रति तु तन्तुरूपं भवत्यसमवायिकारणम् । तत्र लक्षणयोजनम् । यथा पटपटरूपयोः सम्बन्धो भवति कार्यकारण भावरूपः । यस्य निरूपकौ पटपटरूपौ । तयोर्मध्ये एकतरेण पटेन कारणेन सह तन्तुरूपस्य एकार्थतन्तुलक्षणे उभयोः पटतन्तुरूपयोः समवेतत्वेन पटरूपं प्रति तन्तुरूपस्य कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणत्वम् । एकत्र तन्तुलक्षणे पदार्थे पटरूपकारणीभूतपटतन्तुरूपयोः समवेतत्वादेकार्थप्रत्यासत्तिः । तथा च यस्य पदार्थस्य कार्यकारणैकार्थप्रत्यासत्त्या यत्कार्यं प्रति कारणत्वं तत्कार्यं प्रति तस्यासमवायिकारणत्वमिति । तथा चासमवायिकारणतावच्छेदकं तु कार्यकारणैकार्थप्रत्यासत्त्या समवेतत्वम् । अयं धर्मः पटासमवायिकारणे तन्तुसंयोगे, पटरूपा
१. A omits तन्तुरूपे. २. A समवायिकारणसमवायिकारणं. ३. A omits the reading between तत्र...........इत्यर्थः ४. A पटपटयोः. ५. A -समवायिस.. ६. A नेयम्. ७. B पटं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org