________________
५२
तर्कतरङ्गिणी समवायिकारणे तन्तुरूपे च विषये इति नाननुगमः । एतदेवाह-कार्यकारणभावेति ।।
__ अदृष्टे सुखनिमित्तकारणेऽतिव्याप्ति शङ्कते नन्विति समायत्ते तत्रेति अदृष्टेन समं कार्यस्य सुखरूपस्य निरूप[क]कार्यैकार्थप्रत्यासत्त्या यद्यपि वर्तते तथापि-तेनेति कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेन रूपेणादृष्टस्य कारणत्वं नास्ति किन्त्वदृष्टत्वेन रूपेण । ननु तेनैवं रूपेण कारणत्वमदृष्टस्य सुखं प्रति भवत्विति चेत्, तत्राह-प्रमाणाभावादिति तथा चादृष्टत्वेनैव रूपेणोक्तरूपापेक्षया कारणत्वेन लाघवमित्यर्थः । अथात्ममनः संयोगे ज्ञानाद्यसमवायिकारणव्याप्ति शङ्कते नन्विति लाघवादिति कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेपि तयाऽऽत्ममनोयोगत्वेन कारणत्वेन लाघवम् । तत्रानेकपदार्थघटितत्वे न गौरवमिति भावः । कण्टकमुद्धरति न चेति । अयमर्थःकार्यतावच्छेदकं सुखादिनिष्ठमनित्यभावत्वं कारणतावच्छेदकं च कार्यकारणैकार्थप्रत्यासत्ति समवेतत्वम्। इदं चावश्यं वाच्यमेव । अन्यथाऽऽत्ममनः-संयोगजन्यज्ञानादौर 'कार्यतावच्छेदकमनित्यमनित्यभावत्वं कारणतावच्छेदकं चात्ममन:संयोगत्वमिति वक्तव्ये व्यभिचारात् । कथमिति चेत्, आत्म[म] न:-संयोगव्यतिरेके णापि कार्यतावच्छेदकावच्छिन्नास्यानित्यभावत्वावच्छिन्नस्योत्पत्तिसम्भवाद् व्यभिचारः । तथा ऽऽत्मा[म]न:संयोगस्य सुखज्ञानादिकं प्रति कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेन रूपेण कारणत्वमुचितम् । न चात्ममन:संयोगत्वेनोक्तव्यभिचारात् । अ(य)त्र कार्यतावच्छेदकमेकं भवति, तत्र च कारणतावच्छेदकमप्येकं भवति । यथा घटत्वं कार्यतावच्छेदकमेकम् कारणतावच्छेदकं च तत्र दण्डनिष्ठमेकमेव दण्डत्वमिति। एवं च तन्तुसंयोगादीनामप्यसमवायिकारणानां तेनैव रूपेण कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्त्वेन रूपेण कारणत्वं योग्यम् । तथा च सुखादिकं प्रत्यात्ममनः-संयोगस्यात्ममनः संयोगत्वेन रूपेण कारणत्वं यदुक्तं तदूषितं पूर्वयुक्त्या, किन्तूक्तरूपेण कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेन रूपेणेत्याशङ्कार्थः ।
अन्यथेति यदि कार्यकारणैकार्थप्रत्यासत्तिसमवेतत्वेन रूपेण जन्यभावत्वावच्छिन्न प्रत्यसमवायिकारणत्वं न स्वीक्रियते किन्त्वात्ममनःसंयोगत्वादिना, तदाऽनुगमः । कुत्रचिदात्ममनः संयोगः, कुत्रचित्कपालद्वयसंयोगः, कुत्रचित्तन्तुरूपमित्यनुगम इत्याशङ्कार्थः ।
इदं दूषयति-अनित्यभावस्येति तथा च सुखादिनिष्ठः (ष्ठं) आत्म[म]नः संयोगजन्यतावच्छेदकमनित्यभावत्वं न भवति । तस्योपाधित्वात् । भवति च सुखादिकं तस्य जातित्वात् । तथा च यथाऽदृष्टत्वेन सुखत्वेन च कार्यकारणभावः तथाऽऽत्ममनः संयोगत्वेन सुखवत्त्वेन
१. B ज्ञानेनादौ. २. A om its the reading between कार्यता...... ..................कारणतावच्छेदकं. ३. A omits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org